________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-२ // 590 // स्यात्तथोच्यते-नवमस्स तइयवत्थु जहन्न उक्कोस ऊणगा दस उ। सुत्तत्थभिग्गहा पुण दव्वाइ तवो रयणमाती॥१॥अयमर्थः, यस्य जघन्यतो नवमपूर्व तृतीयं वस्तु यावद्भवत्युत्कर्षतस्तु दश पूर्वाणि न्यूनानि सूत्रतोऽर्थतो भवन्ति, द्रव्यादयश्चाभिग्रहा रत्नावल्यादिना च तपस्तस्य परिहारतपो दीयते, तद्दाने च निरुपसर्गार्थं कायोत्सर्गो विधीयते, शुभे च नक्षत्रादौ तत्प्रतिपत्तिः, तथा गुरुस्तं ब्रूते, यथाऽहं तव वाचनाचार्योऽयं च गीतार्थः साधुः सहायस्ते, शेषसाधवोऽपि वाच्याः, यथा, एस तवं पडिवजह न किंचि आलवइ मा य आलवह। अत्तचिंतगस्स उ वाघाओ भे न कायव्वो॥१॥ तथा कथमहमालापादिरहितः संस्तपः करिष्यामीत्येवं बिभ्यतस्तस्य भयापहारः कार्यः, कल्पस्थितश्च तस्यैतत्करोतिकिइकम्मं च पडिच्छइ परिन्न पडिपुच्छयंपि से देइ। सोवि य गुरुमुवचिट्ठइ उदंतमवि पुच्छिओ कहइ॥१॥ इह परिज्ञा प्रत्याख्यानं प्रतिपृच्छा त्वालापकः, ततोऽसौ यदा ग्लानीभूतः सन्नुत्थानादि स्वयं कर्तुं न शक्नोति तदा भणति, उत्थानादि कर्तुमिच्छामि, ततोऽनुपरिहारकस्तूष्णीक एव तदभिप्रेतं समस्तमपि करोति, आह च, उटेज निसीएज्जा भिक्खं हिंडेज भंडगं पेहे। कुवियपियबंधवस्स व करेइ इयरोवि तुसिणीओ 1 // तपश्च तस्य ग्रीष्मशिशिरवर्षासु जघन्यादिभेदेन चतुर्थादिद्वादशान्तं पूर्वोक्तमेवेति / सुहुमसंपरायचरित्तलद्धि त्ति संपरैति पर्यटति संसारमेभिरिति सम्परायाः कषायाः सूक्ष्मा लोभांशावशेषरूपाः सम्पराया यत्र तत्सूक्ष्मसम्परायं शेषं तथैव, एतदपि द्विधा विशुद्ध्यमानकंसङ्क्लिश्यमानकंच, तत्र विशुद्ध्यमानकंक्षपकोपशमकश्रेणिद्वयमारोहतो भवति १सङ्क्लिश्यमानकं Oनवमस्य तृतीयवस्तु यावज्जघन्यत उत्कृष्टत ऊनानि दश। सूत्रार्थाभ्यां द्रव्यादयोऽभिग्रहाः पुनस्तपो रत्नावल्यादि॥१॥ एष तपः प्रतिपद्यते न किश्चिदालपिष्यति मा च लीलपध्वं / आत्मार्थचिन्तकस्य भवद्भिर्व्याघातो न कर्त्तव्यः / / 1 // 0 कृतिकर्म प्रतीच्छति प्रत्याख्यानं प्रतिपृच्छामपि तस्मै ददाति / सोऽपि च गुरुमुपतिष्ठत उदन्तमपि पृष्टः कथयति // 1 // 0 उत्तिष्ठेन्निषीदेदिक्षां हिण्डेत भाण्डं प्रेक्षेत / कुपितप्रियबान्धवस्येव करोतीतरोऽपि तूष्णीकः॥१॥ 8 शतके उद्देशक:२ आशीविषा|धिकारः। सूत्रम् 320 ९लब्धिद्वारम्। | ज्ञानादिदश|लब्धिभेदप्रभेद प्रश्नाः / ज्ञानादिलब्धिमत्सुतद्ररहितेषु ज्ञानाज्ञानादि प्रश्ना : B // 59