________________ भाग-२ काय श्रीभगवत्यङ्ग 8अवषम अवधेर्भवप्रत्ययत्वेनान्तरगतावपि भावात्तिन्नि अन्नाणाई भयणाए त्ति, असज्ञिनां नरके गच्छतां द्वे अज्ञाने अपर्याप्तकत्वे 8 शतके श्रीअभय विभङ्गस्याभावात् सजिनांतु मिथ्यादृष्टीनां त्रीण्यज्ञानानि भवप्रत्ययविभङ्गस्य सद्भावादतस्त्रीण्यज्ञानानि भजनयेत्युच्यत उद्देशकः 2 वृत्तियुतम् आशीविषाइति / 32 तिरियगइया णं ति तिर्यक्षु गतिर्गमनं येषां ते तिर्यग्गतिकास्तेषां तदपान्तरालवर्त्तिनां दो नाण त्ति सम्यग्दृष्ट्यो धिकारः। // 582 // ह्यवधिज्ञाने प्रपतित एव तिर्यक्षु गच्छन्ति तेन तेषां वे एव ज्ञाने, दो अन्नाणे त्ति मिथ्यादृष्ट्योऽपि हि विभङ्गज्ञाने प्रतिपतित एव सूत्रम् 319 गत्यादि तिर्यक्षु गच्छन्ति तेन तेषां द्वे अज्ञाने इति / 33 मणुस्सगइया ण मित्यादौ, तिन्नि नाणाई भयणाए त्ति मनुष्यगतौ हि गच्छन्तः विंशतिद्वारेषु केचिज्ज्ञानिनोऽवधिना सहैव गच्छन्ति तीर्थङ्करवत् केचिच्च तद्विमुच्य तेषां त्रीणि वा द्वेवा ज्ञाने स्यातामिति, ये पुनरज्ञानिनो ज्ञानाज्ञान प्रश्नाः / मनुष्यगतावुत्पत्तुकामास्तेषां प्रतिपतित एव विभङ्गेतत्रोत्पत्तिः स्यादित्यत उक्तं दो अन्नाणाई नियम त्ति / देवगइया जहा निरयगइय गतीन्द्रियत्ति देवगतौ ये ज्ञानिनो यातुकामास्तेषामवधिर्भवप्रत्ययो देवायुः प्रथमसमय एवोत्पद्यतेऽतस्तेषां नारकाणामिवोच्यते, तिन्नि सूक्ष्मपर्याप्तनाणाई नियम त्ति, ये त्वज्ञानिनस्तेऽसज्ञिभ्य उत्पद्यमाना व्यज्ञानिनः, अपर्याप्तकत्वे विभङ्गस्याभावात् सज्ञिभ्य उत्पद्यमाना भवसिद्धिस्त्व(स्तुस्त्र्य?)ज्ञानिनो भवप्रत्ययविभङ्गस्य सद्भावाद्, अतस्तेषां नारकाणामिवोच्यत तिन्नि अन्नाणाई भयणाए त्ति। 34 कसंज्ञी-८ सिद्धिगइया ण मित्यादि, यथा सिद्धाः केवलज्ञानिन एवैवं सिद्धिगतिका अपि वाच्या इति भावः, यद्यपि च सिद्धानां द्वाराणि। सिद्धिगतिकानांचान्तरगत्यभावान विशेषोऽस्ति तथाऽपीह गतिद्वारबलायातत्वात्ते दर्शिताः, एवं द्वारान्तरेष्वपि परस्परान्तर्भावेऽपि तत्तद्विशेषापेक्षयाऽपौनरुक्त्यं भावनीयमिति // 35 अथेन्द्रियद्वारे सइंदिये त्यादि, सेन्द्रिया इन्द्रियोपयोगवन्तस्ते च / // 582 // ज्ञानिनोऽज्ञानिनश्च, तत्र ज्ञानिनां चत्वारि ज्ञानानि भजनया स्याउ स्यात्त्रीणि स्याच्चत्वारि, केवलज्ञानं तु नास्ति तेषाम्, अतीन्द्रियज्ञानत्वात्तस्य, व्यादिभावश्च ज्ञानानां लब्ध्यपेक्षया, उपयोगापेक्षया तु सर्वेषामेकदैकमेव ज्ञानम्, अज्ञानिनां तु भवस्थ