________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-२ // 1077 // १रायगिहे जाव एवं व. परिसा पडि०, गोयमादी समणे भ० म० भगवं गो० आमंतेत्ता एवं व०- चिरसंसिट्ठोऽसि मे गोयमा! चिरसंथुओऽसि मे गोयमा! चिरपरिचिओऽसि मे गोयमा! चिरजुसिओऽसि मे गोयमा! चिराणुगओऽसि मे गोयमा! चिराणुवत्तीसि मे गोयमा! अणंतरं देवलोए अणंतरं माणुस्सए भवे, किं परं? मरणा कायस्स भेदा इओ चुत्ता दोवि तुल्ला एगट्ठा अविसेसमणाणत्ता भविस्सामो॥सूत्रम् 521 // 1 रायगिह इत्यादि, तत्र किल भगवान् श्रीमन्महावीरः केवलज्ञानाप्राप्त्या सखेदस्य गौतमस्वामिनः समाश्वासनायात्मनस्तस्य च भाविनीं तुल्यतां प्रतिपादयितुमिदमाह गोयमे त्यादि, चिरसंसिट्ठोऽसि त्ति चिरंबहुकालं यावच्चिरे वाऽतीते प्रभूते काले संश्लिष्टः स्नेहात्संबद्धाश्चिरसंश्लिष्टोऽसि भवसि, मे मया मम वा त्वं हे गौतम!, चिरसंथुओत्ति चिरंबहुकालमतीतं यावत् संस्तुतः स्नेहात्प्रशंसितश्चिरसंस्तुतः, एवं चिरपरिचिए त्ति पुनः पुनदर्शनतः परिचितश्चिरपरिचितः, चिरजुसिए त्ति चिरसेवितचिरप्रीतोवा, जुषी प्रीतिसेवनयोरिति वचनात्, चिराणुगए त्ति चिरमनुगतोममानुगतिकारित्वात्, चिराणुवत्तीसित्ति चिरमनुवृत्तिरनुकूलवर्तिता यस्यासौ चिरानुवृत्तिः, इदं च चिरसंश्लिष्टत्वादिकं क्वासीत् ? इत्याह, अणंतरं देवलोए त्ति, अनन्तरं निर्व्यवधानं यथा भवत्येवं देवलोकेऽनन्तरे देवभव इत्यर्थः, ततोऽप्यनन्तरं मनुष्यभवे, जात्यर्थत्वादेकवचनस्य देवभवेषु मनुष्यभवेषु चेति द्रष्टव्यम्, तत्र किल त्रिपृष्ठभवे भगवतो गौतमः सारथित्वेन चिरसंश्लिष्टत्वादिधर्मयुक्त आसीत्, अवमन्येष्वपि भवेषु सम्भवतीति, एवं च मयि तव गाढत्वेन स्नेहस्य न केवलज्ञानमुत्पद्यते भविष्यति च तवापि स्नेहक्षये तदित्यधृतिं मा कृथा इति गम्यते, किं परं?, मरण त्ति किंबहुना, परं ति परतः, मरणात् मृत्योः, किमुक्तं भवति? कायस्य भेदाद्धेतोः, इओ चुय त्ति, इतः प्रत्यक्षान्मनुष्यभवाच्च्युतौ दोवि त्ति द्वावप्यावां तुल्यौ भविष्याव इति योगः, तत्र तुल्यौ समानजीवद्रव्यो, एकट्ठत्ति, 14 शतके उद्देशकः संश्लिष्टशब्दोपलक्षिताधिकारः। सूत्रम् 521 खिन्नं श्रीगौतममामंत्र्यप्रभोः चिरसम्बन्धकथनमाश्वासनब्ध। // 1077 //