________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-२ // 1076 // महये त्यादि यावत्करणादेवं दृश्यं महया-हय-नट्टगीय-वाइय-तंती-तल-ताल-तुडिय-घण-मुइंग-पडुप्पवाइयरवेणं ति व्याख्या चास्य प्राग्वत्, इह च यच्छक्रस्य सुधर्मसभालक्षण भोगस्थान सद्भावेऽपि भोगार्थ नेमिप्रतिरूपकादिविकुर्वणं तजिनास्नानामाशातनापरिहारार्थं सुधर्मसभायां हि माणवके स्तम्भे जिनास्थीनि समुद्रकेषु सन्ति, तत्प्रत्यासत्तौ च भोगानुभवने तदबहुमानः कृतः स्यात्स चाशातनेति। 4 सिंहासणं विउव्वइ त्ति सनत्कुमारदेवेन्द्रः सिंहासनं विकुरुते न तु शक्रेशानाविव देवशयनीयम्, स्पर्शमात्रेण तस्य परिचारकत्वान्न शयनीयेन प्रयोजनमिति भावः, सपरिवारं ति स्वकीयपरिवारयोग्यासनपरिकरितमित्यर्थः, नवरं जो जस्स परिवारो सो तस्स भाणियव्वो त्ति तत्र सनत्कुमारस्य परिवार उक्तः, एवं माहेन्द्रस्य तु सप्ततिः सामानिकसहस्राणि चतस्रश्चाङ्गरक्षसहस्राणां सप्ततयः, ब्रह्मणः षष्टिः सामानिकसहस्राणां लान्तकस्य पञ्चाशच्छुक्रस्य चत्वारिंशत् सहस्रारस्य त्रिंशत् प्राणतस्य विंशतिरच्युतस्य तु दश सामानिकसहस्राणि, सर्वत्रापि च सामानिकचतुर्गुणा आत्मरक्षा इति / पासायउच्चत्तं ज मित्यादि तत्र सनत्कुमारमाहेन्द्रयोः षड् योजनशतानि प्रसादस्योच्चत्वं ब्रह्मलान्तकयोः सप्त शुक्रसहस्रारयोरष्टौप्राणतेन्द्रस्याच्युतेन्द्रस्य च नवेति, इह च सनत्कुमारादायः सामानिकादिपरिवारसहितास्तत्र नेमिप्रतिरूपके गच्छन्ति,तत्समक्षमपि स्पर्शादिप्रतिचारणाया अविरुद्धत्वात्, शक्रेशानौतुन तथा, सामानिकादिपरिवारसमक्षं कायप्रतिचारणाया लज्जनीयत्वेन विरुद्धत्वादिति // 520 // चतुर्दशशते षष्ठः // 14-6 // ॥चतुर्दशशतके सप्तमोद्देशकः॥ षष्ठोद्देशकान्ते प्राणताच्युतेन्द्रयो गानुभूतिरुक्ता, सा च तयोः कथञ्चित्तुल्येति तुल्यताऽभिधानार्थः सप्तमोद्देशकः तस्य चेदमादिसूत्रम् 14 शतके उहशक: किमाहाराधिकारः। सूत्रम् भोगं भोक्तुकामाना शक्रेशानादीनांनेमिविकुर्वणं प्रासादशय्यास्वरूपादिप्रश्नाः / उद्देशक:७ संश्लिष्टशब्दोपलक्षिता[धिकारः। // 1076 //