________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-२ // 1055 // परम्परानुपपन्नानांच चतुर्विधस्याप्यायुषः प्रतिषेधोऽध्येतव्यः, तस्यामवस्थायां तथाविधाध्यवसायस्थानाभावेन सर्वजीवानामायुषो बन्धाभावात्, स्वायुषस्त्रिभागादौ चशेषे बन्धसद्भावात्, परम्परोपपन्नकास्तुस्वायुषः षण्मासे शेषे मतान्तरेणोत्कर्षतः षण्मासे जघन्यतश्चान्तर्मुहूर्ते शेषे भवप्रत्ययात्तिर्यग्मनुष्यायुषी, एव कुर्वन्ति नेतर इति, 8 एवं जाव वेमाणिय त्ति, अनेनोक्तालापकत्रययुक्तश्चतुविंशतिदण्डकोऽध्येतव्य इति सूचितम्, यश्चात्र विशेषस्तं दर्शयितुमाह नवरं पंचिंदिए त्यादि॥ अथानन्तरनिर्गतत्वादिनाऽपरं दण्डकमाह नेरइया ण मित्यादि, तत्र निश्चितं स्थानान्तरप्राप्त्या गतं गमनम्, निर्गतमनन्तरं समयादिना निर्व्यवधानं निर्गतं येषां तेऽनन्तरनिर्गतास्ते च येषां नरकादुद्वत्तानां स्थानान्तरं प्राप्तानां प्रथमः समयो वर्त्तते, तथा परम्परेण समयपरम्परया निर्गतं येषां ते तथा, तेच येषां नरकादुद्वृत्तानामुत्पत्तिस्थानप्राप्तानां व्यादयः समयाः, अनन्तरपरम्परानिर्गतास्तु ये नरकादुद्वृत्ताः सन्तो विग्रहगतौ वर्त्तन्ते न तावदुत्पादक्षेत्रमासादयन्ति तेषामनन्तरभावेन परम्परभावेन चोत्पादक्षेत्राप्राप्तत्वेन निश्चयेनानिर्गतत्वादिति // 10 अथानन्तरनिर्गतादीनाश्रित्यायुर्बन्धमभिधातुमाह, अणंतरे त्यादि, इह च परम्परानिर्गता नारकाः सर्वाण्यायूंषि बध्नन्ति, यतस्ते मनुष्याः पञ्चेन्द्रियतिर्यञ्च एव च भवन्ति, ते च सर्वायुर्बन्धका एवेति, एवं सर्वेऽपि परम्परनिर्गता वैक्रियजन्मानः, औदारिकजन्मानोऽप्युद्वृत्ताः केचिन्मनुष्यपञ्चेन्द्रियतिर्यञ्चो भवन्त्यतस्तेऽपि सर्वायुर्बन्धका एवेति // 13 अनन्तरं निर्गता उक्तास्ते च क्वचिदुत्पद्यमानाः सुखेनोत्पद्यन्ते दुःखेन वेति दुःखोत्पन्नकानाश्रित्याह नेरइये त्यादि, अनंतरखेदोववन्नग त्ति, अनन्तरंसमयाद्यव्यवहितं खेदेन दुःखेनोपपन्नमुत्पादक्षेत्रप्राप्तिलक्षणं येषां तेऽनन्तरखेदोपपन्नकाः खेदप्रधानोत्पत्तिप्रथम-2 समयवर्तिन इत्यर्थः, परंपरखेओववन्नग त्ति परम्परा द्विवादिसमयता खेदेनोपपन्ने उत्पादे येषां ते परम्पराखेदोपपन्नकाः, अणंतरपरंपरखेदाणुववन्नग त्ति, अनन्तरं परम्परं च खेदेन नास्त्युपपन्नकं येषां ते तथा विग्रहगतिवर्त्तिन इत्यर्थः, ते चेव चत्तारि 14 शतके उद्देशकः१ चरमशब्दोपलक्षिताधिकारः। सूत्रम् 502 नारकानन्तरपरम्परानन्तरपरम्परोत्पन्ननिर्गमकत्वंतेषामायुबन्धादिप्रश्नाः / एवं खेदोपपन्नकत्वादि।