________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-२ // 1053 // त्यदिग्व्यवस्थितमुत्पादहस्तादधोलोके विदिशोशिस्थानं यातीति, तृतीयेन तु तिर्यगेव वायव्यां दिशि, उत्पत्तिस्थानमिति, तदनेन गतिकाल उक्तः, एतदभिधानाच्चशीघ्रा गतिर्यादृशी तदुक्तमिति, अथ निगमयन्नाह, नेरइयाण मित्यादि, तहा सीहा गइ त्ति यथोत्कृष्टतः समयत्रये भवति, तहा सीहे गइविसए त्ति तथैव, एगिदियाणं चउसामइए विग्गहे त्ति, उत्कर्षतश्चतुःसमय एकेन्द्रियाणां विग्रहः, वक्रगतिर्भवति, कथम्?, उच्यते, त्रसनाड्या बहिस्तादधोलोके विदिशो दिशं यात्येकेन, जीवानामनुश्रेणिगमनात्, द्वितीयेन तु लोकमध्ये प्रविशति तृतीयेनोर्द्धं याति चतुर्थेन तु त्रसनाडीतो निर्गत्य दिग्व्यवस्थितमुत्पादस्थानं प्राप्नोतीति, एतच्च बाहुल्यमङ्गीकृत्योच्यते, अन्यथा पञ्चसमयोऽपि विग्रहो भवेदेकेन्द्रियाणाम्, तथाहि, त्रसनाड्या बहिस्तादधोलोके विदिशो दिशं यात्येकेन द्वितीयेन लोकमध्ये तृतीयेनोद्धुलोके चतुर्थेन ततस्तिर्यक् पूर्वादिदिशो निर्गच्छति ततः पञ्चमेन विदिग्व्यवस्थितमुत्पत्तिस्थानं यातीति, उक्तञ्च विदिसाउ दिसिं पढमे बीए पइ सरइ नाडिमज्झमि / उहं तइए तुरिए उ नीइ विदिसं तु पंचमए॥१॥ (विदिशो दिशं प्रति सरति प्रथमे द्वितीये नाडीमध्यं तृतीय ऊर्ध्वं तुर्ये निर्गच्छति पंचमे तु विदिशं॥१॥) इति, सेसंतं चेव त्ति पुढविक्काइयाणं भंते! कहं सीहा गई? इत्यादि सर्वं यथा नारकाणां तथा वाच्यमित्यर्थः / 501 // अनन्तरं गतिमाश्रित्य नारकादिदण्डक उक्तः, अथानन्तरोत्पन्नत्वादि प्रतीत्यापरं तमेवाह 5 नेरइया णं भंते! किं अणंतरोववन्नगा परंपरोववन्नगा अणंतरपरंपरअणुववन्नगा?, गोयमा! नेर० अणंतरो वि परंपरो वि अणंतरपरंपरअणु वि, सेकेण एवं वु० जाव अणंतरपरंपरअणुववन्नगावि?, गोयमा! जेणंने पढमसमयो० तेणं ने० अणंतरो०, जेणं ने अपढमसमयो० ते णं नेरइया परंपरोव०, जेणं नेर० विग्गहगइसमावन्नगा ते णं ने० अणंतरपरंपरअणु०, से तेणटेणं जाव अणु वि, एवं निरंतरं जाव वेमा०?।६ अणंतरोव० णं भंते! ने० किं नेरइयाउयं पकरेंति तिरिक्ख० मणुस्स० देवाउयं पकरेंति?, 14 शतके उद्देशकः१ चरमशब्दोपलक्षिता|धिकारः। सूत्रम् 502 नारकानन्तरपरम्परानन्तरपरम्परोत्पन्ननिर्गमकत्वंतेषामायुबंन्धादिप्रश्नाः / एवं खेदोपपन्नकत्वादि। // 1053 //