SearchBrowseAboutContactDonate
Page Preview
Page 530
Loading...
Download File
Download File
Page Text
________________ 14 शतके उद्देशकः 1 चरमशब्दोपलक्षिताधिकारः। सूत्रम् 501 नरकशीघ्रगति प्रश्नदृष्टान्तादि श्रीभगवत्यङ्गजुवलमारमा जुयल-परिघनिभ-बाहू तलौ तालवृक्षौ तयोर्यमलं समश्रेणीकं यधुगलं द्वयं परिघश्चार्गला तन्निभौ तत्सदृशौ दीर्घसरलश्रीअभय पीनत्वादिना बाहू यस्य सतथा, चम्मेट्ठ-दुहण-मुट्ठिय-समाहय-निचिय-गायकाए चर्मेष्टया द्रुघणेन मुष्टिकेन च समाहतान्यभ्यासवृत्तियुतम् भाग-२ प्रवृत्तस्य निचितानि गात्राणि यत्र स तथाविधः कायो यस्य स तथा, चर्मेष्टादयश्च लोक प्रतीताः, ओरस-बल-समन्नागए // 1052 // आन्तरबलयुक्तः लंघण-पवण-जइण-वायाम-समत्थे जविनशब्दः शीघ्रवचनः, छेए प्रयोगज्ञः, दक्खे शीघ्रकारी, पत्तट्टेऽधिकृतकर्मणि निष्ठां गतः कुसल आलोचितकारी, मेहावी सकृतश्रुतदृष्टकर्मज्ञः, निउण उपायारम्भकः, एवंविधस्य ब्ल हि पुरुषस्य शीघ्रंगत्यादिकं भवतीत्यतो बहुविशेषणोपादानमिति, आउंटियं ति सङ्कोचितम्, विक्खिन्नं ति विकीर्णां प्रसारिताम्, साहरेज त्ति साहरेत् सङ्कोचयेत्, विक्खिरेज्जत्ति विकिरेत् प्रसारयेत्, उम्मिसियंति, उन्मिषितमुन्मीलितम्, निमिसेज त्ति निमीलयेत्, भवेयारूवे त्ति काक्वाऽध्येयम्, काकुपाठे चायमर्थः स्यात्, यदुतैवं मन्यसे त्वं गौतम! भवेत्तद्रूपं भवेत्स स्वभावः शीघ्रतायां नरकगतेस्तद्विषयस्य च यदुक्तं विशेषणपुरुषबाहुप्रसारणादेरिति, एवं गौतममतमाशङ्कय भगवानाह, नायमर्थः समर्थः, अथ कस्मादेवमित्याह, नेरइयाण मित्यादि, अयमभिप्रायः, नारकाणां गतिरेकद्वित्रिसमया बाहुप्रसारणादिका चासङ्घयेयसमयेति कथं तादृशी गतिर्भवति नारकाणामिति, तत्र च एगसमएण व त्ति, एकेन समयेनोपपद्यन्त इति योगः, ते च ऋजुगतावेव, वाशब्दो विकल्पे, इह च विग्रहशब्दो न सम्बन्धितः, तस्यैकसामायिकस्याभावात्, दुसमएण व त्ति द्वौ समयौ यत्र स द्विसमयस्तेन विग्रहेणेति योगः, एवं त्रिसमयेन वा विग्रहेण वक्रेण, तत्र द्विसमयो विग्रह एवम्, यदा भरतस्य पूर्वस्या दिशो नरके पश्चिमायामुत्पद्यते तदैकेन समयेनाधो याति द्वितीयेन तु तिर्यगुत्पत्तिस्थानमिति, त्रिसमयविग्रहस्त्वेवम्, यदा भरतस्य पूर्वदक्षिणाया दिशो नारकेऽपरोत्तरायां दिशिगत्वोत्पद्यते तदैकेन समयेनाधः समश्रेण्या याति द्वितीयेन च तिर्यक् पश्चिमायां मापसा॥१०५२॥
SR No.600444
Book TitleVyakhyapragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size15 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy