________________ 13 शतके उद्देशक:१० श्रीभगवत्यङ्गं श्रीअभय. वृत्तियुतम् भाग-२ // 1047 // समुद्धाता धिकारः। सूत्रम् 499 छाद्यस्थिकसमुद्धातभेदप्रश्नाः / न पुनरुक्तता, तथाहि, कृष्णः सन् कृष्णच्छायः, छाया चादित्यावरणजन्यो वस्तुविशेषः, एवमुत्तरपदेष्वपि, घणकडिय कडिच्छाए त्ति, अन्योऽन्यं शाखानुप्रवेशाद्बहलं निरन्तरच्छाय इत्यर्थः, अणुपुव्वसुजाये त्यत्र यावत्करणादेवं दृश्यम्, अणुपुव्वसुजाय-वप्पगंभीर-सीयल-जला, अनुपूर्वेण सुजाता वप्रा यत्र गम्भीरं शीतलं च जलं यत्र सा तथेत्यादि, सर्दुन्नइयमहुरसरनाइय त्ति, इदमेवं दृश्यम्, सुय-बरहिण-मयण-साल-कोंच-कोइल-कोजक-भिंकारक-कोंडलक-जीवंजीवक-नंदीमुह-कविल-पिंगलखग-कारंडग-चक्कवाय-कलहंस-सारस-अणेगसउणगण-मिहुण-विरइय-सदुन्नइय-महुरसर-नाइय त्ति तत्र शुकादीनां सारसान्तानामनेकेषां शकुनिगणानां मिथुनर्विरचितं शब्दोन्नतिकं च, उन्नतशब्दकं मधुरस्वरं च नादितं लपितं यस्यां सा तथेति // 498 // त्रयोदशशते नवमः // 13-9 // ॥त्रयोदशशतके दशम उद्देशकः॥ अनन्तरोद्देशके वैक्रियकरणमुक्तम्, तच्च समुद्धाते सति छद्मस्थस्य भवतीति छाद्मस्थिकसमुद्धाताभिधानार्थो दशम उद्देशकस्तस्य चेदमादिसूत्रम् कति णं भंते! छाउमत्थियसमुग्घाया प०?, गोयमा! छ छाउमत्थिया समुग्घाया प०, तंजहा- वेयणासमुग्घाए एवं छाउमत्थियसमुग्घाया नेयव्वा जहा पन्नवणाए जाव आहारगसमुग्घायेत्ति / सेवं भंते! रत्ति ॥सूत्रम् 499 ॥१३-१०॥तेरसमंसयं समत्तं / / 13 // कइ ण मित्यादि, छाउमत्थिय त्ति छद्मस्थोऽकेवली तत्र भवाश्छाद्मस्थिकाः, समुग्घाये ति हन हिंसागत्योः, हननं घातः, सम्, एकीभावे, उत्प्राबल्ये, ततश्चैकीभावेन प्राबल्येन च घातः समुद्धातः, अथ केन सहकीभावगमनम्?, उच्यते, यदाऽऽत्मा वेदनादिसमुद्धातंगतस्तदा वेदनाद्यनुभवज्ञानपरिणत एव भवतीति वेदनाद्यनुभवज्ञानेन सहकीभावः, प्राबल्येन घातः कथम्?, // 1 047 //