________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-२ // 1038 // 13 शतके उद्देशकः७ भाषाधिकारः। सूत्रम् 494-495 मन:काययोरात्मरूप त्वादि पूर्वत्वादितत्प्रकारादिप्रश्नाः / वदग्न्ययस्पिण्डवत् काञ्चनोपलवद्वा, अत एव कायस्पर्शे सत्यात्मनः संवेदनं भवति, अत एव च कायेन कृतमात्मना भवान्तरे वेद्यते,अत्यन्तभेदे चाकृतागमप्रसङ्ग इति, अन्नेवि काये त्ति, अत्यन्ताभेदे हि शरीरांशच्छेदे जीवांशच्छेदप्रसङ्गः, तथा च संवेदनासम्पूर्णता स्यात्, तथा शरीरस्य दाह आत्मनोऽपि दाहप्रसङ्गेन परलोकाभावप्रसङ्ग इत्यतः कथञ्चिदात्मनोऽन्योऽपि काय इति, अन्यैस्तु कार्मणकायमाश्रित्यात्मा काय इति व्याख्यातम्, कार्मणकायस्य संसार्यात्मनश्च परस्पराव्यभिचरितत्वेनैकस्वरूपत्वात्, अन्नेवि काए त्ति, औदारिकादिकायापेक्षया जीवादन्यः कायस्तद्विमोचनेन तद्भेदसिद्धिरिति, 14 रूविपि काए त्ति रूप्यपि काय औदारिकादिकायस्थूलरूपापेक्षया, अरूप्यपि कायः कार्मणकायस्यातिसूक्ष्मरूपित्वेनारूपित्वविवक्षणात्, एवं एक्कक्के पुच्छ त्ति पूर्वोक्तप्रकारेणैकैकसूत्रे पृच्छा विधेया, तद्यथा, सचित्ते भंते! काये अचित्ते काये? इत्यादि, अत्रोत्तरम्, सचित्तेवि काए जीवदस्थायां चैतन्यसमन्वितत्वात्, अचित्तेवि काए मृतावस्थायां चैतन्यस्याभावात्, जीवेवि काये त्ति जीवोऽपि विवक्षितोच्छ्रासादिप्राणयुक्तोऽपि भवति काय औदारिकादिशरीरमपेक्ष्य, अजीवेवि काये त्ति, अजीवोऽप्युच्छ्रासादिरहितोऽपि भवति कायः कार्मणशरीरमपेक्ष्य, जीवाणवि काये त्ति जीवानां सम्बन्धी कायः शरीरं भवति, अजीवाणवि कायेत्ति, अजीवानामपि स्थापनार्हदादीनां कायः शरीरं भवति, शरीराकार इत्यर्थः, 15 पुष्विपि काए त्ति जीवसम्बन्धकालात्पूर्वमपि कायो भवति यथा भविष्यजीवसम्बन्धं मृतदर्दुरशरीरम्, काइजमाणेवि काए त्ति जीवेन चीयमानोऽपि कायो भवति यथा जीवच्छरीरम्, कायसमयवीतिक्कतेवि काए त्ति कायसमयो जीवेन कायस्य कायताकरणलक्षणस्तंव्यतिक्रान्तो यः स तथा सोऽपि काय एव मृतकडेवरवत्, 16 पुब्बिंपिकाए भिज्जइ त्ति जीवेन कायतया ग्रहणसमया-3 त्पूर्वमपि कायो मधुघटादिन्यायेन द्रव्यकायो भिद्यते प्रतिक्षणं पुद्गलचयापचयभावात्, काइज्जमाणेवि काए भिज्जइ त्ति जीवन