________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-२ // 1039 // त्वादि कायीक्रियमाणोऽपिकायो भिद्यते, सिकताकणकलापमुष्टिग्रहणवत् पुद्गलानामनुक्षणं परिशाटनभावात्, कायसमयवीतिक्कते |13 शतके ऽविकाये भिज्जइ त्ति कायसमयव्यतिक्रान्तस्य च कायता भूतभावतया घृतकुम्भादिन्यायेन, भेदश्च पुद्गलानांतत्स्वभावतयेति, उद्देशकः७ भाषाधिकारः। चूर्णिकारेण पुनः कायसूत्राणि कायशब्दस्य केवलशरीरार्थत्यागेन चयमात्रवाचकत्वमङ्गीकृत्य व्याख्यातानि, यदाह, कायसद्दो सूत्रम् सव्वभावसामन्नसरीरवाई कायशब्दः सर्वभावानांसामान्यं यच्छरीरंचयमानंतद्वाचक इत्यर्थः, एवंच, आयाविकाए सेसदव्वाणिवि 494-495 मन:काययोकाये त्ति, इदमुक्तं भवति, आत्माऽपि कायः प्रदेशसञ्चय इत्यर्थः तदन्योऽप्यर्थः कायप्रदेशसञ्चयरूपत्वादिति, रूपी कायः। रात्मरूपपुद्गलस्कन्धापेक्षया, अरूपी कायो जीवधर्मास्तिकायाद्यपेक्षया, सचित्तः कायो जीवच्छरीरापेक्षया, अचित्तः कायोऽचेतन पूर्वत्वादिसञ्चयापेक्षया, जीवः काय उच्छ्रासादियुक्तावयवसञ्चयरूपः, अजीवः कायः तद्विलक्षणः, जीवानां कायो जीवराशिः, तत्प्रकारादि प्रश्नाः / अजीवानां कायः परमाण्वादिराशिरिति, एवं शेषाण्यपि॥ 17 अथ कायस्यैव भेदानाह कइविहे ण मित्यादि, अयं चल सप्तविधोऽपि प्राग विस्तरेण व्याख्यात इह तु स्थानाशून्यार्थं लेशतो व्याख्यायते, तत्र चौरालिए त्ति, औदारिकशरीरमेव पुद्गलस्कन्धरूपत्वादुपचीयमानत्वात्काय औदारिककायः, अयं च पर्याप्तकस्यैवेति, ओरालियमीसए त्ति, औदारिकश्चासौ मिश्रश्च कार्मणेनेत्यौदारिकमिश्रः, अयंचापर्याप्तकस्य, वेउब्विय त्ति वैक्रियः पर्याप्तकस्य देवादेः, वेउब्वियमीसएत्ति वैक्रियचासौ मिश्रश्च कार्मणेनेति वैक्रियमिश्रः,अयं चाप्रतिपूर्णवैक्रियशरीरस्य देवादेः, आहारए त्ति, आहारकः, आहारकशरीरनिर्वृत्ती, आहारगमीसए त्ति, आहारक परित्यागेनौदारिकग्रहणायोद्यतस्याहारकमिश्रो भवति, मिश्रता पुनरौदारिकेणेति, कम्मए त्ति विग्रहगतौ केवलिसमुद्धाते वा कार्मणः स्यादिति // 495 // अनन्तरं काय उक्तस्तत्त्यागे च मरणं भवतीति तदाह