SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-२ // 570 // 8 शतके उद्देशकः१ पुद्गलपरिणामाधिकारः। सूत्रम् 314 द्रव्यपञ्चकापेक्षया सत्यमनः प्रयोगादिषु चतुर्षु पदेषु द्विकत्रिकचतुष्कसंयोगा भवन्ति, तत्र च द्विकसंयोगाश्चतुर्विंशतिः 24, कथम्?, चतुर्णा पदानां षट् द्विकसंयोगाः, तत्र चैकैकस्मिन् पूर्वोक्तक्रमेण चत्वारो विकल्पाः षण्णां च(?) चतुर्भिर्गुणने (च) चतुर्विंशतिरिति, त्रिकसंयोगा अपिचतुर्विंशतिः, कथम्?, चतुर्णां पदानां त्रिकसंयोगाश्चत्वारः, एकैकस्मिंश्चपूर्वोक्तक्रमेण षड् विकल्पाः , चतुर्णां च षड्भिर्गुणने चतुर्विंशरिति, चतुष्कसंयोगे तु चत्वारः, कथम्?, आदौ द्वे त्रिषु चैकैकं 1 तथा द्वितीयस्थाने द्वे शेषेषु चैकैकं 2 तथा तृतीय स्थाने द्वे शेषेषु चैकैकं 3 तथा चतुर्थे द्वे शेषेषु चैकैकमि 4 त्येवं चत्वार इति, एकेन्द्रियादिषु तु पञ्चसु पदेषु द्विक(त्रिक?)चतुष्कपञ्चकसंयोगा भवन्ति, तत्र च द्विकसंयोगाश्चत्वारिंशत्, कथम्?, पञ्चानां पदानां दश द्विकसंयोगाः, एकैकस्मिंश्च द्विकसंयोगे पूर्वोक्तक्रमेण चत्वारो विकल्पा दशानां च चतुर्भिर्गुणने चत्वारिंशदिति, त्रिकसंयोगे तु षष्टिः, कथम्?, पञ्चानां पदानां दश त्रिकसंयोगा एकैकस्मिंश्च त्रिकसंयोगे पूर्वोक्तक्रमेण षड् विकल्पाः, दशानां च षड्भिर्गुणने षष्टिरिति, चतुष्कसंयोगास्तु विंशतिः, कथम्?, पञ्चानां पदानां तु चतुष्कसंयोगे पञ्च विकल्पा एकैकस्मिंश्च पूर्वोक्तक्रमेण चत्वारोभङ्गाः पञ्चानांचतुर्भिर्गुणने विंशतिरिति, पञ्चकसंयोगे त्वेक एवेति, एवं षट्कादिसंयोगा। अपिवाच्याः, नवरंषट्कसंयोग आरम्भसत्यमनः प्रयोगादिपदान्याश्रित्य सप्तकसंयोगस्त्वौदारिकादिकायप्रयोगमाश्रित्याटकसंयोगस्तु व्यन्तरभेदान्, नवकसंयोगस्तु ग्रैवेयकभेदान् दशकसंयोगस्तु भवनपतिभेदानाश्रित्य वैक्रियशरीरकायप्रयोगापेक्षया समवसेयः, एकादशसंयोगस्तु सूत्रे नोक्तः, पूर्वोक्तपदेषु तस्यासम्भवात्, द्वादशसंयोगस्तु कल्पोपपन्नदेवभेदानाश्रित्य वैक्रियशरीरकायप्रयोगापेक्षया वेति। पवेसण त्ति नवमशतकसत्कतृतीयोद्देशकेगाड्याभिधानानगारकृतनरकादिगतप्रवेशन© यद्यपि नवमे शतके द्वात्रिंशत्तमोद्देशके वक्तव्यतैषा तथाऽप्युत्पातोद्वर्तनाख्याधिकारद्वयानन्तरं प्रवेशनकस्य तृतीयस्य भावाद्वात्रिंशत्तमोद्देशकस्य तृतीय उद्देशे द्रव्यद्वयपरिणामः। प्रयोगपरिणतादिभेद मनःप्रयोगपरिणतादिप्रभेदादिप्रश्नाः / // 570 //
SR No.600444
Book TitleVyakhyapragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy