SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-२ // 569 // परिणाम उक्त स इहापि वाच्य इति भावः, किमन्तं तत्सूत्रं वाच्यम्? इत्याह जावे त्यादि, इह च परिमण्डलादीनि पञ्च पदानि तेषु चैकत्वे पञ्च विकल्पाः, द्विकसंयोगेतु विंशतिः, कथम्?, आद्यस्यैकत्वे शेषाणां च क्रमेणानेकत्वे तथाऽऽद्यस्यानेकत्वे उद्देशक:१ पुदलपरिणाशेषाणां तु क्रमेणैवैकत्वे (अष्टौ?) एवं द्वितीयस्यैकत्वेऽनेकत्वे च शेषत्रयस्य चानेकत्वे एकत्वे च षट् तथा तृतीयस्यैकत्वे माधिकारः। सूत्रम् 314 (अनेकत्वे?) च द्वयोश्चानेकत्व एकत्वे च चत्वारः तथा चतुर्थस्यैकत्वेऽनेकत्वे च पञ्चमस्य चानेकत्वे एकत्वे च द्वावित्येवं द्रव्यद्वयसर्वेऽपि विंशतिः, त्रिकयोगे तु दश, अत्र च, अहवा एगे तंससंठाण इत्यादिना त्रिकयोगानां दशमो दर्शित इति / 67 अथ परिणामः। प्रयोगद्रव्यचतुष्कमाश्रित्याह चत्तारि भंते! इत्यादि, इह प्रयोगपरिणतादित्रय एकत्वे त्रयो द्विकसंयोगे तु नव, कथम्?, आद्यस्यैकत्वे परिणतादिभेद द्वयोश्च क्रमेण त्रित्वे द्वौ, तथाऽऽद्यस्य द्वित्वे द्वयोरपि क्रमेणैव द्वित्वेऽन्यौ द्वौ, तथाऽऽद्यस्य त्रित्वे द्वयोश्च क्रमेणैवैकत्वेऽन्यौ द्वौ, मनःप्रयोग परिणतादितथा द्वितीयस्यैकत्वेऽन्यस्य त्रित्वे तथा द्वयोरपि द्वित्वे तथा द्वितीयस्य त्रित्वेऽन्यस्य चैकत्वे त्रयोऽन्य इत्येवं सर्वेऽपि नव, प्रभेदादित्रययोगे तु त्रय एव भवन्तीत्येवं सर्वेऽपि पञ्चदश इति / 68 जइ पओगपरिणया किं मणप्पओगे त्यादिना चोक्तशेषं द्रव्यचतुष्क- |प्रश्नाः / प्रकरणमुपलक्षितम्, तच्चपूर्वोक्तानुसारेण संस्थानसूत्रान्तमुचितभङ्गकोपेतंसमस्तमध्येयमिति / अथ पश्चादिद्रव्यप्रकरणान्य-8 तिदेशतो दर्शयन्नाह, एवं एएण मित्यादि, एवं चाभिलाप: पंच भंते! दव्वा किं पओगपरिणया 3?, गोयमा! पओगपरिणया 3 अहवा एगे पओगपरिणए चत्तारि मीसापरिणये त्यादि, इह च द्विकसंयोगे विकल्पा द्वादश, कथम्?, एकं चत्वारि च 1 द्वे त्रीणि च र त्रीणि द्वेच ३चत्वार्येकं च 4 इत्येवं चत्वारो विकल्पा द्रव्यपञ्चकमाश्रित्यैकत्र द्विकसंयोगे पदत्रयस्य त्रयो द्विकसंयोगास्ते च चतुर्भिर्गुणिता द्वादशेति, त्रिकयोगे तु षट्, कथम्?, त्रीण्येकमेकं च 1 एकंत्रीण्येकं च 2 एकमेकं त्रीणि च 3 द्वेद्वे एकं चल 4 द्वे एकं द्वे च 5 एकं द्वे द्वे च 6 इत्येवं षट्, जाव दससंजोएणं ति, इह यावत्करणाच्चतुष्कादिसंयोगाः सूचिताः, तत्र च
SR No.600444
Book TitleVyakhyapragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy