SearchBrowseAboutContactDonate
Page Preview
Page 478
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-२ // 1000 / अणंतरोववन्नग त्ति कियन्तः प्रथमसमयोत्पन्नाः? इत्यर्थः, परंपरोववन्नग त्ति, उत्पत्तिसमयापेक्षया व्यादिसमयेषु वर्तमानाः, अणंतरावगाढ त्ति विवक्षितक्षेत्रे प्रथमसमयावगाढाः, परंपरोगाढ त्ति विवक्षितक्षेत्रे द्वितीयादिकः समयोऽवगाढे येषां ते परम्परावगाढाः, के० चरिम त्ति चरमो नारकभवेषु स एव भवो येषां ते चरमाः, नारकभवस्य वा चरमसमये वर्तमानाश्चरमाः, अचरमास्त्वितरे, असन्नी सिय अत्थि सिय नत्थि त्ति, असज्ञिभ्य उद्धृत्य ये नारकत्वेनोत्पन्नास्तेऽपर्याप्तकावस्थायामसज्ञिनो भूतभावत्वात्ते चाल्पा इति कृत्वा सिय अत्थी त्याद्युक्तम्, मानमायालोभकषायोपयुक्तानां नोइन्द्रियोपयुक्तानामनन्तरोपपन्नानामनन्तरावगाढानामनन्तराहारकाणामनन्तरपर्याप्तकानां च कादाचित्कत्वात् सिय अत्थी त्यादि वाच्यम्, शेषाणां तु बहुत्वात्सङ्ख्याता इति वाच्यमिति // 7 अनन्तरंसङ्खयातविस्तृतनरकावासनारकवक्तव्यतोक्ता, अथ तद्विपर्ययवक्तव्यतामभिधातुमाह, इमीसे ण मित्यादि, तिन्नि गमग त्ति, उववजंति उव्वद्वृति पन्नत्त त्ति, एते त्रयोगमाः, ओहिनाणी ओहिदसणी य संखेज्जा उव्वट्टावेयव्व त्ति, कथं?, ते हि तीर्थरादय एव भवन्ति,ते च स्तोकाः स्तोकत्वाच्च सङ्ख्याता एवेति, 8 नवरं असन्नी तिसुवि गमएसु न भन्नति कस्मात्?, उच्यते, असज्ञिनः प्रथमायामेवोत्पद्यन्ते असन्नी खलु पढम मिति वचनादिति, 9 णाणत्तं लेसासु लेसाओ जहा पढमसए त्ति, इहाद्यपृथिवीद्वयापेक्षया तृतीयादिपृथिवीषु नानात्वं लेश्यासु भवति, ताश्च यथा प्रथमशते (उ०२) तथाऽध्येयाः, तत्र च सङ्ग्रहगाथेयं काऊ दोसु तइयाइ मीसिया नीलिया चउत्थीए / पंचमियाए मीसा कण्हा तत्तो परमकण्हा // 1 // इति 10 नवरं ओहिनाणी ओहिदसणी य न उववजंति त्ति, कस्मात्?, उच्यते, ते हि प्रायस्तीर्थकरा एव, ते च चतुर्थ्या उद्वृत्ता नोत्पद्यन्त इति, 13 जाव अपइट्ठाणे त्ति, इह यावत्करणात् काले महाकाले रोरुए महारोरुए त्ति दृश्यम्, इह च मध्यम एव द्वयोः कापोता तृतीयायां मिश्रा चतुर्थ्यां नीला पञ्चम्यां मिश्रा कृष्णा ततः परमकृष्णा // 1 // 13 शतके उद्देशकः१ नरकपृथिव्यधिकारः। सूत्रम् 470 सप्तनरकपृथ्वीषुसङ्ख्यातासवयातयोजननरकावासेष्वेकसमये नरकजीवोत्पाद कापोतलेश्याकृष्णपाक्षिकसंज्यादिजीवोत्पादोद्वर्तनासत्तासङ्ख्याप्रश्नाः / // 1000 //
SR No.600444
Book TitleVyakhyapragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy