SearchBrowseAboutContactDonate
Page Preview
Page 465
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-२ // 987 // उद्देशक: 10 आत्मभेदा|धिकारः। 7 अथात्मन एव स्वरूपनिरूपणायाह, आया भंते! नाण इत्यादि, आत्मा ज्ञानं योऽयमात्माऽसौ ज्ञानं न तयोर्भेदः, 12 शतके अथात्मनोऽन्यज्ज्ञानमिति प्रश्नः, उत्तरं तु, आत्मास्याज्ज्ञानं सम्यक्त्वे सति मत्यादिज्ञानस्वभावत्वात्तस्य, स्यादज्ञानं मिथ्यात्वे सति तस्य मत्यज्ञानादिस्वभावत्वात्, ज्ञानं पुनर्नियमादात्मा, आत्मधर्मत्वाज्ज्ञानस्य, न च सर्वथा धर्मो धर्मिणो भिद्यते, सूत्रम् 468 आत्मन ज्ञानादि सर्वथा भेदेहि विप्रकृष्टगुणिनोगुणमात्रोपलब्धौ प्रतिनियतगुणिविषय एव संशयोनस्यात्, तदन्येभ्योऽपि तस्य भेदाविशेषात्, स्वरूपं नै० पृ० आदिनां ज्ञानदृश्यते च यदा कश्चिद्धरिततरुतरुणशाखाविसररन्ध्रोदरान्तरतः किमपि शुक्लंपश्यति तदा किमियं पताका किमियंबलाका? इत्येवं प्रतिनियतगुणिविषयोऽसौ, नापि धर्मिणो धर्मः सर्वथैवाभिन्नः, सर्वथैवाभेदे हि संशयानुत्पत्तिरेव, गुणग्रहणत एव गुणिनोऽपि गृहीतत्वादतः कथञ्चिदभेदपक्षमाश्रित्य ज्ञानं पुनर्नियमादात्मेत्युच्यत इति, इह चात्मा ज्ञानं व्यभिचरति ज्ञान त्वात्मानंन व्यभिचरति खदिरवनस्पतिवदिति सूत्रगर्भार्थ इति // 8 अमुमेवार्थं दण्डके निरूपयन्नाह आये त्यादि, नारकाणामात्माऽऽत्मस्वरूपं ज्ञानमुतान्यन्नारकाणां ज्ञानम्? तेभ्यो व्यतिरिक्तमित्यर्थ इति प्रश्नः, उत्तरं तु आत्मा नारकाणां स्याज्ज्ञानं सम्यग्दर्शनभावात् स्यादज्ञानं मिथ्यादर्शनभावात्, ज्ञानं पुनः से त्ति तन्नारकसम्बन्ध्यात्मा न तद्व्यतिरिक्तमित्यर्थः॥ 9 आया है भंते! पुढविक्काइयाण मित्यादि, आत्माऽऽत्मस्वरूपमज्ञानमुतान्यत्तत्तेषाम्?, उत्तरंतु, आत्मा तेषामज्ञानरूपो नान्यत्तत्तेभ्य इति त्रिचतुःपञ्चभावार्थः।१० एवं दर्शनसूत्राण्यपि, नवरंसम्यग्दृष्टिमिथ्यादृष्ट्योदर्शनस्याविशिष्टत्वादात्मा दर्शनंदर्शनमप्यात्मैवेति वाच्यम्, यत्र हि धर्मे विपर्ययो नास्ति तत्र नियम एवोपनीयते न व्यभिचारः, यथेहैव दर्शने, यत्र तु विपर्ययोऽस्ति तत्र व्यभिचारो नियमश्च यथा ज्ञाने, आत्मा ज्ञानरूपोऽज्ञानरूपश्चेति व्यभिचारः, ज्ञानं त्वात्मैवेति नियम इति // 468 // 12 आया भंते! रयणप्पभा पुढवी अन्ना रयणप्पभा पु०!, गोयमा! रयणप्पभा सिय आया, सिय नोआया, सिय अवत्तव्वं रूपत्वादिप्रश्राः / सूत्रम् 469 रत्नप्रभादियात्सिद्धशिलासदसद्रूप प्रश्ना : / परमाणुयणुकसदसद्रूपत्व तद्धत्वादिप्रश्नाः / प्रदाशकानामात्मादि विविधभङ्गाः। // 987 //
SR No.600444
Book TitleVyakhyapragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy