________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-२ // 984 // सूत्रम् 467 य तहा कसायाया य दंसणाया य त्ति, अतिदेशः, तस्माच्चेदं लब्धं जस्स कसायाया तस्स दंसणाया नियम अत्थि दर्शनरहितस्य 12 शतके घटादेः कषायात्मनोऽभावात्, जस्स पुण दंसणाया तस्स कसायाया सिय अत्थि सिय नत्थि दर्शनवतां कषायसद्भावात्तदभावाञ्चेति,R उद्देशकः 10 आत्मभेदादृष्टान्तार्थस्तु प्राक् प्रसिद्ध एवेति, कसायाया य चरित्ताया य दोवि परोप्परं भइयव्वाओ त्ति भजनांचैवम्, यस्य कषायात्मा तस्य धिकारः। चारित्रात्मा स्यादस्ति स्यान्नास्ति, कथं?, कषायिणां चारित्रस्य सद्भावात् प्रमत्तयतीनामिव तद्भावाच्चासंयतानामिवेति, द्रव्यकषायतथा यस्य चारित्रात्मा तस्य कषायात्मास्यादस्ति स्यान्नास्ति, कथं?,सामायिकादिचारित्रिणांकषायाणां भावाद्यथाख्यात- योगोपयोगचारित्रिणां च तदभावादिति, O जहा कसायाया य जोगाया य तहा कसायाया वीरियाया य भाणियव्वओ त्ति दृष्टान्तः प्राक् ज्ञानदर्शन चारित्रवीर्याप्रसिद्धः, दान्तिकस्त्वेवम्, यस्य कषायात्मा तस्य वीर्यात्मा नियमादस्ति, न हि कषायवान् वीर्यविकलोऽस्ति, यस्य पुनर्वीर्यात्मा तस्य कषायात्मा भजनया, यतो वीर्यवान् सकषायोऽपि स्याद्यथा संयतः, अकषायोऽपि स्याद्यथा केवलीति 6 / अथ योगात्माऽग्रेतनपदैः पञ्चभिः सह चिन्तनीयस्तत्र च लाघवार्थमतिदिशन्नाह, एवं जहा कसायायाए वत्तव्वया भणिया तहा जोगायाएवि उवरिमाहिं समं भाणियव्व त्ति, सा चैवम्, यस्य योगात्मा तस्योपयोगात्मा नियमाद्यथा सयोगानाम्, यस्य पुनरुपयोगात्मा तस्य योगात्मा स्यादस्ति यथा सयोगानां स्यान्नास्ति यथाऽयोगिनां सिद्धानां चेति, तथा यस्य योगात्मा तस्य ज्ञानात्मा स्यादस्ति सम्यग्दृष्टीनामिव स्यान्नास्ति मिथ्यादृष्टीनामिव, यस्य ज्ञानात्मा तस्यापि योगात्मा स्यादस्ति सयोगिनामिव स्यान्नास्त्ययोगिनामिवेति, तथा यस्य योगात्मा तस्य दर्शनात्माऽस्त्येव योगिनामिव यस्य च दर्शनात्मा तस्य योगात्मा स्यादस्ति योगवतामिव स्यान्नास्त्ययोगिनामिव, तथा यस्य योगात्मा तस्य चारित्रात्मा स्यादस्ति विरतानामिव स्यान्नास्त्यविरतानामिव, यस्यापि चारित्रात्मा तस्य योगात्मा स्यादस्ति सयोगचारित्रवतामिव स्यान्नास्त्ययोगिनामिवेति, ष्टात्मभेदाः तेषां परस्परसम्बन्धाल्पबहत्वप्रश्राः / // 984 //