________________ श्रीभगवत्यङ्गं श्रीअभयवृत्तियुतम् भाग-२ // 979 // सागरोपमम्, सातिरेकत्वं च नरदेवभवे चक्ररत्नोत्पत्तेराचीनकालेन द्रष्टव्यम्, उत्कृष्टतस्तु देशोनं पुद्गलपरावर्तार्द्धम्, कथं?, चक्रवर्त्तित्वं हि सम्यग्दृष्टय एव निर्वर्त्तयन्ति, तेषांच देशोनापार्द्धपुद्गलपरावर्त एव संसारो भवति, तदन्त्यभवे च कश्चिन्नरदेवत्वं लभत इत्येवमिति। 33 धम्मदेवस्स ण मित्यादि, जहन्नेणं पलिओवमपुहत्तं ति, कथं?, चारित्रवान् कश्चित् सौधर्मे पल्योपम- पृथक्त्वायुष्केषूत्पद्य ततश्च्युतो धर्मदेवत्वं लभत इत्येवमिति, यच्च मनुजत्व उत्पन्नश्चारित्रं विनाऽऽस्ते तदधिकमपि सत् पल्योपमपृथक्त्वेऽन्तर्भावितमिति / 35 भावदेवस्सणमित्यादि, जहन्नेणं अंतोमुहत्तं ति, कथं?, भावदेवश्च्युतोऽन्तर्मुहूर्तमन्यत्र स्थित्वा पुनरपि भावदेवोजात इत्येवं जघन्येनान्तर्मुहूर्तमन्तरमिति // 37 अर्थतेषामेवाल्पबहुत्वं प्ररूपयन्नाह, एएसिण मित्यादि, सव्वत्थोवा नरदेव त्ति भरतैरवतेषु प्रत्येकं द्वादशानामेव तेषामुत्पत्तेर्विजयेषु च वासुदेवसम्भवात् सर्वेष्वेकदाऽनुत्पत्तेरिति / देवाइदेवा संखेज्जगुण त्ति भरतादिषु प्रत्येकं तेषां चक्रवर्तिभ्यो द्विगुणतयोत्पत्तेर्विजयेषु च वासुदेवोपेतेष्वप्युत्पत्तेरिति / धम्मदेवा संखेजगुण त्ति साधूनामेकदाऽपि कोटीसहस्रपृथक्त्वसद्धावादिति, भवियदव्वदेवा असंखेज्जगुण त्ति देशविरतादीनां देवगतिगामिनामसङ्ख्यातत्वात्, भावदेवा असंखेज्जगुण त्ति स्वरूपेणैव तेषामतिबहुत्वादिति // 465 // 37 अथ भावदेवविशेषाणां भवनपत्यादीनामल्पबहुत्वप्ररूपणायाह एएसिण मित्यादि, जहा जीवाभिगमे (जीवाभि०प०७११) तिविह इत्यादि, इह च तिविहे त्ति त्रिविधजीवाधिकार इत्यर्थः, देवपुरुषाणामल्पबहुत्वमुक्तं तथेहापि वाच्यम्, तच्चैवम्, सहस्सारे कप्पे देवा असंखेज्जगुणा महासुक्के असं गुणा लंतए असं॰गुणा बंभलोए देवा असं॰गुणा माहिदे देवा असं०गुणा सणंकुमारे कप्पे देवा असं गुणा ईसाणे देवा असं गुणा सोहम्मे देवा सं०गुणा भवणवासिदेवा असं गुणा वाणमंतरा देवा असं॰गुण त्ति // 466 // द्वादशशते नवमः॥१२-९॥ 12 शतके उद्देशकः९ देवभेदाधिकारः। सूत्रम् 465 देवपञ्चकानां गतिस्थिति परस्परांतर तेषामल्पबहुत्वादिप्रश्नाः / सूत्रम् 466 भावदेवानामल्पबहुत्वप्रश्नाः / // 979 //