________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-२ // 978 // देवभेदा तेषामल्पबहत्वादि 6 प०२१५-१) असुरकुमाराणं उव्वट्टणा तहा भाणियव्व त्ति, असुरकुमारा बहुषु जीवस्थानेषु गच्छन्तीतिकृत्वा तैरतिदेशः कृ 12 शतके तः, असुरादयो हीशानान्ताः पृथिव्यादिष्वपि गच्छन्तीति // 30 अथ तेषामेवानुबन्धं प्ररूपयन्नाह भवियदव्वदेवेण मित्यादि, उद्देशक: 9 भवियदव्वदेवेइ त्ति भव्यद्रव्यदेव इत्यमुं पर्यायमत्यजन्नित्यर्थः, जहन्नेणमंतोमुत्त मित्यादि पूर्ववदिति / एवं जहेव ठिई सच्चेव धिकारः। संचिट्ठणावित्ति एवमनेन न्यायेन यैव स्थितिर्भवस्थितिः,प्राग्वर्णिता,सैवैषां संस्थितिरपि तत्पर्यायानुबन्धोऽपीत्यर्थः, विशेष सूत्रम् 465 देवपञ्चकानां त्वाह नवरमित्यादि, धर्मदेवस्य जघन्येनैकं समयं स्थितिः, अशुभभावंगत्वा ततो निवृत्तस्य शुभभावप्रतिपत्तिसमयानन्तरमेव गतिस्थिति परस्परांतर मरणादिति // ३१अथैतेषामेवान्तरं प्ररूपयन्नाह भवियदव्वदेवस्स णंभंते! इत्यादि, जहन्नेणं दसवाससहस्साई अंतोमुहुत्तमब्भहियाई ति भव्यद्रव्यदेवस्यान्तरं जघन्येन दशवर्षसहस्राण्यन्तर्मुहूर्त्ताभ्यधिकानि, कथं?, भव्यद्रव्यदेवो भूत्वा दशवर्षसहस्रस्थितिषु / व्यन्तरादिषूत्पद्य च्युत्वा शुभपृथिव्यादौ गत्वाऽन्तर्मुहूर्त स्थित्वा पुनर्भव्यद्रव्यदेव एवोपजायत इत्येवम्, एतच्चटीकामुपजीव्य. व्याख्यातम्, इह कश्चिदाह-ननुदेवत्वाच्च्युतस्यानन्तरमेव भव्यद्रव्यदेवतयोत्पत्तिसम्भवाद्दशवर्षसहस्राण्येव जघन्यतस्तस्यान्तरं भवत्यतः कथमन्तर्मुहूर्ताभ्यधिकानि तान्युक्तानि इति, अत्रोच्यते, सर्वजघन्यायुर्देवश्च्युतः सन् शुभपृथिव्यादिषूत्पद्य भव्यद्रव्यदेवेषूत्पद्यत इति टीकाकारमतमवसीयते, तथा च यथोक्तमन्तरं भवतीति, अन्ये पुनराहुः, इह बद्धायुरेव भव्यद्रव्यदेवोऽभिप्रेतस्तेन जघन्यस्थितिकाद्देवत्वाच्च्युत्वाऽन्तर्मुहर्त्तस्थितिकभव्यद्रव्यदेवत्वेनोत्पन्नस्यान्तर्मुहत्तोपरि देवायुषो बन्धनाद्यथोक्तमन्तरं भवतीति, अथवा भव्यद्रव्यदेवस्य जन्मनोर्मरणयोर्वाऽन्तरस्य ग्रहणाद्यथोक्तमन्तरमिति / 32 नरदेवाण मित्यादि, जहन्नेणं साइरेगं सागरोवमंति, कथम्?, अपरित्यक्तसङ्गाश्चक्रवर्त्तिनो नरकपृथिवीषूत्पद्यन्ते, तासु च यथास्वमुत्कृष्टस्थितयो भवन्ति, ततश्च नरदेवो मृतः प्रथमपृथिव्यामुत्पन्नस्तत्र चोत्कृष्टां स्थिति सागरोपमप्रमाणामनुभूय नरदेवो जातः, इत्येवं // 978 //