________________ श्रीभगवत्यङ्गं श्रीअभय. वृत्तियुतम् भाग-२ // 977 // नरदेवधर्म 16 अथ तेषामेव स्थितिं प्ररूपयन्नाह भवियदव्वदेवाण मित्यादि, जहन्नेणं अंतोमुहत्तं ति, अन्तर्मुहर्तायुषः पञ्चेन्द्रियतिरश्चो देवेषूत्पादाद्भव्यद्रव्यदेवस्य जघन्याऽन्तर्मुहूर्त्तस्थितिः, उक्कोसेणं तिन्नि पलिओवमाईति, उत्तरकुर्वादिमनुजादीनां देवेष्वेवोत्पादात्, तेच भव्यद्रव्यदेवाः तेषांचोत्कर्षतो यथोक्ता स्थितिरिति / 17 सत्त वाससयाई ति यथा ब्रह्मदत्तस्य चउरासीपुव्वसयसहस्साई ति यथा भरतस्य। 18 धर्मदेवानां जहन्नेणं अंतोमुहुत्तं ति योऽन्तर्मुहूर्तावशेषायुश्चारित्रं प्रतिपद्यते तदपेक्षमिदं, उक्कोसेणं देसूणा पुव्वकोडी ति तु यो देशोनपूर्वकोट्यायुश्चारित्रं प्रतिपद्यते तदपेक्षमिति, ऊनताच पूर्वकोट्या अष्टाभिर्वषैरष्टवर्षस्यैव प्रव्रज्याहत्वात्, यच्च षड्डर्षस्त्रिवर्षो वा प्रव्रजितोऽतिमुक्तको वैरस्वामि वा तत्कादाचित्कमिति न सूत्रावतारीति / 19 देवातिदेवानां जहन्नेणं बावत्तरिंवासाई ति श्रीमन्महावीरस्येव, उक्कोसेणं चउरासीइ पुव्वसयसहस्साई ति, ऋषभस्वामिनो यथा / 20 भावदेवानां जहन्नेणं दस वाससहस्साई ति यथा व्यन्तराणाम्, उक्कोसेणं तेत्तीसं सागरोवमाई ति यथा सर्वार्थसिद्धदेवानाम् // 463 // 21 अथ तेषामेव विकुर्वणां प्ररूपयन्नाह भवियदव्वदेवा ण मित्यादि, एगत्तं पभू विउव्वित्तए त्ति भव्यद्रव्यदेवो मनुष्यः | पञ्चेन्द्रियतिर्यग्वा वैक्रियलब्धिसम्पन्नः, एकत्वमेकरूपम्, प्रभुःसमर्थः, विकुर्वयितुंपुहुत्तं ति नानारूपाणि, 22 देवातिदेवास्तु सर्वथौत्सुक्यवर्जितत्वान्न विकुर्वते शक्तिसद्भावेऽपीत्यत उच्यते नोचेवण मित्यादि, संपत्तीएत्ति वैक्रियरूपसम्पादनेन, विकुर्वणशक्तिस्तु विद्यते, तल्लब्धिमात्रस्य विद्यमानत्वात् // 464 // 24 अथ तेषामेवोद्वर्त्तनांप्ररूपयन्नाह भवियदव्वे त्यादि, इह च भविकद्रव्यदेवानां भाविदेवभवस्वभावत्वान्नारकादिभवत्रयनिषेधः / 25 नरदेवसूत्रे तु नेरइएसु उववजंति त्ति, अत्यक्तकामभोगा नरदेवा नैरयिकेषूत्पद्यन्ते शेषत्रये तु तन्निषेधः, तत्र च यद्यपि केचिच्चक्रवर्त्तिनो देवेषूत्पद्यन्ते तथाऽपि ते नरदेवत्वत्यागेन धर्मदेवत्वप्राप्ताविति न दोषः, 28 जहा वक्कंतीए (प्रज्ञा०पद 12 शतके उद्देशकः 9 देवभेदाधिकारः। सूत्रम् 463-464 भव्यद्रव्यदेवदेवदेवाधिः भान्देवानां स्थितिः तेषां विकुर्वणशक्तिरादिप्रश्नाः / सूत्रम् 465 देवपञ्चकानां गतिस्थिति परस्परांतर तेषामल्पबहुत्वादिप्रश्ना : / // 977 //