SearchBrowseAboutContactDonate
Page Preview
Page 433
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-२ // 955 // 12 शतके उद्देशक:५ प्राणातिपाताधिकारः। सूत्रम् 449 प्राणातिपातादिक्रोधमानमायालोभरागादीनां वर्णादियुक्तताप्रश्नाः। परस्य वा क्रियारम्भात् कुतोऽपिव्यावर्त्तनमिति, अप्रकाशो वाऽभिमानादेवेति, उण्णए त्ति, उच्छिन्नं नतं पूर्वप्रवृत्तं नमनमभिमानादुन्नतम्, उच्छिन्नो वा नयो नीतिरभिमानादेवोन्नयो नयाभाव इत्यर्थः, उण्णामे त्ति प्रणतस्य मदानुप्रवेशादुन्नमनम्, दुन्नामे त्ति मदाद्दष्टं नमनं दुर्नाम इति, इह च स्तम्भादीनि मानकार्याणि मानवाचका वैते ध्वनय इति / 4 माय त्तिसामान्यमुपध्यादयस्तद्भेदाः, तत्रोवहि त्ति, उपधीयते येनासावुपधिर्वञ्चनीयसमीपगमनहेतु वः, नियडि त्ति नितरां करणं निकृतिः, आदरकरणेन परवञ्चनं पूर्वकृतमायाप्रच्छादनार्थं वा मायान्तरकरणम्, वलए त्ति येन भावेन वलयमिव वक्रं वचनं चेष्टा वा प्रवर्त्तते स भावो वलयम्, गहणे त्ति परव्यामोहनाय यद्वचनजालं तद्गहनमिव गहनम्, णूमे त्ति परवञ्चनाय निम्नताया निम्नस्थानस्य वाऽश्रयणं तन्नूमंति, कक्के त्ति कल्कं हिंसादिरूपं पापं तन्निमित्तो यो वञ्चनाभिप्रायः स कल्कमेवोच्यते, कुरूए त्ति कुत्सितं यथा भवत्येवं रूपयति विमोहयति यत्तत्कुरूपं भाण्डादिकर्म मायाविशेष एव, जिम्हे त्ति येन परवञ्चनाभिप्रायेण जैस्यम्, क्रियासु मान्द्यमालम्बते स भावो जैहयमेवेति, किब्बिसे त्ति यतो मायाविशेषाजन्मान्तरेऽत्रैव वा भवे किल्बिषः किल्बिषिको भवति स किल्बिष एवेति, आयरणय त्ति यतोमायाविशेषादादरणमभ्युपगमंकस्यापि वस्तुनः करोत्यसावादरणम्, ताप्रत्ययस्य चस्वार्थिकत्वादायरणया, आचरणंवा परप्रतारणाय विविधक्रियाणामाचरणम्, गूढनया गूहनं गोपायनं स्वरूपस्य, वंचणया वञ्चनं परस्य प्रतारणम्, पलिउंचणया प्रतिकुञ्चनं सरलतया प्रवृत्तस्य वचनस्य खण्डनम्, साइजोगे त्ति, अविश्रम्भसम्बन्धः। सातिशयेन वा द्रव्येण निरतिशयस्य योगस्तत्प्रतिरूपकरणमित्यर्थः, मायैकार्था वैते ध्वनय इति / 5 लोभे ति सामान्यमिच्छादयस्तद्विशेषाः, तत्रेच्छाऽभिलाषमात्रम्, मुच्छा कंखा गेही त्ति मूर्छा संरक्षणानुबन्धः, काङ्क्षा प्राप्तार्थाशंसा, गेहि त्ति गृद्धिः प्राप्तार्थेष्वासक्तिः तण्ह त्ति तृष्णा प्राप्तार्थानामव्ययेच्छा, भिज्जत्ति, अभि व्याप्त्या विषयाणां ध्यानं तदेकाग्रत्वमभिध्या // 955
SR No.600444
Book TitleVyakhyapragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size15 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy