________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-२ // 954 // एवं सव्वद्धावि ॥सूत्रम् 450 // 1 रायगिह इत्यादि, पाणाइवाए त्ति प्राणातिपातजनितं तज्जनकं वा चारित्रमोहनीयं कर्मोपचारात् प्राणातिपात एव, एवमुत्तरत्रापि, तस्य च पुद्गलरूपत्वाद्वर्णादयो भवन्तीत्यत उक्तं पंचवन्न इत्यादि, आह च पंचरसपंचवन्नेहिं परिणयं दुविहगंधचउफासं / दवियमणंतपएस सिद्धेहिं अणंतगुण हीणं॥१॥ इति चउफासे त्ति स्निग्धरूक्षशीतोष्णाख्याश्चत्वारः स्पर्शाः सूक्ष्मपरिणामपरिणतपुद्गलानां भवन्ति, सूक्ष्मपरिणामं च कर्मेति।२ कोहे त्ति क्रोधपरिणामजनकंकर्म, तत्र क्रोध इति सामान्य नाम कोपादयस्तु तद्विशेषाः, तत्र कोपः क्रोधोदयात्स्वभावाच्चलनमात्रम्, रोषः क्रोधस्यैवानुबन्धः, दोष आत्मनः परस्य वा दूषणम्, एतच्च क्रोधकार्य द्वेषो वाऽप्रीतिमात्रम्, अक्षमा परकृतापराधस्यासहनम्, सज्वलनो मुहुर्मुहुः क्रोधाग्निना ज्वलनम्, कलहो महता शब्देनान्योऽन्यमसमञ्जसभाषणम्, एतच्च क्रोधकार्यम्, चाण्डिक्यं रौद्राकारकरणम्, एतदपि क्रोधकार्यमेव, भण्डनं दण्डादिभिर्युद्धम्, एतदपि क्रोधकार्यमेव, विवादो विप्रतिपत्तिसमुत्थवचनानि, इदमपि तत्कार्यमेवेति, क्रोधैकार्था वैते शब्दाः।३ माणे त्ति मानपरिणामजनकं कर्म, तत्र मान इति सामान्य नाम, मदादयस्तु तद्विशेषाः, तत्र मदो हर्षमात्रम्, दो हप्तता, स्तम्भोऽनम्रता, गर्वं शौण्डीर्यम्, अत्तुक्कोसे त्ति, आत्मनः परेभ्यः सकाशाद्गुणैरुत्कर्षणमुत्कृष्टताऽभिधानम्, परपरिवादः परेषामपवदनं परिपातो वा गुणेभ्यः परिपातनमिति, उक्कोसे त्ति, उत्कर्षणमात्मनः परस्य वा मनाक् क्रिययोत्कृष्टताकरणमुत्काशनं वा प्रकाशनमभिमानात्स्वकीयसमृद्ध्यादेः, अवक्कासे त्ति, अपकर्षणमवकर्षणं वाऽभिमानादात्मनः 0 पञ्चभी रसैः पञ्चभिर्वर्णैः परिणतं द्विविधगन्धं चतुःस्पर्शम् / अनन्तप्रदेशं द्रव्यं सिद्धेभ्योऽनन्तगुणं हीनम् // 1 / / 12 शतके उद्देशकः 5 प्राणातिपाताद्यधिकारः। सूत्रम् 449 प्राणातिपातादिक्रोधमानमायालाभरागादीनां वर्णादियुक्तता प्रश्नाः / सूत्रम् 450 प्राणातिपातादिविरमणमतिअवग्रहादिउत्थानादिसप्तमावकाशान्तरतनवातनै०आदिपृथिवीकाधिकादीनां सर्वद्रव्यानाच वर्णनादिप्रश्नाः / // 954 //