SearchBrowseAboutContactDonate
Page Preview
Page 411
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-२ // 933 // 12 शतके उद्देशक: 2 जयन्त्यधिकारः। सूत्रम् 443 जीवगुरुभव्यत्व इति प्रश्नः, हंते त्यादि तूत्तरम्, अयं चास्यार्थः, समस्ता अपि भवसिद्धिका जीवाः सेत्स्यन्त्यन्यथा भवसिद्धिकत्वमेव न स्यादिति / अथ सर्वभवसिद्धिकानांसेत्स्यमानताऽभ्युपगमे भवसिद्धिकशून्यतालोकस्य स्यात्, नैवम्, समयज्ञातात्, तथाहिसर्व एवानागतकालसमया वर्तमानतां लप्स्यन्ते भवति स नामातीतः प्राप्तो यो नाम वर्तमानत्वम् / एष्यंश्च नाम स भवति यः प्राप्स्यति वर्तमानत्वम्॥१॥इत्यभ्युपगमात्, न चानागतकालसमयविरहितो लोको भविष्यतीति / ६अर्थतामेवाशङ्कांजयन्ती / प्रश्नद्वारेणास्मदुक्तसमयज्ञातापेक्षया ज्ञातान्तरेण परिहर्तुमाह जइ ण मित्यादीत्येके व्याख्यान्ति, अन्ये तु व्याचक्षते-सर्वेऽपि भवसिद्धिभदन्त! भवसिद्धिका जीवाः सेत्स्यन्ति-ये केचन सेत्स्यन्ति ते सर्वेऽपि भवसिद्धिका एव नाभवसिद्धिक एकोऽपि, अन्यथा भवसिद्धिकत्वमेव नस्यादित्यभिप्रायः, हंतेत्याधुत्तरम् / अथ यदि ये केचन सेत्स्यन्ति सर्वेऽपि भवसिद्धिका एव नाभवसिद्धिक सुप्तजाग्रत सबलदुर्बलएकोऽपीत्यभ्युपगम्यते तदा कालेन सर्वभवसिद्धिकानां सिद्धिगमनाद्भव्यशून्यता जगतः स्यादिति जयन्त्याशङ्कां तत्परिहार दक्षालसत्व च दर्शयितुमाह जइणमित्यादि, सव्वागाससेढित्ति सर्वाकाशस्य बुद्धया चतुरस्रप्रतरीकृतस्य श्रेणिः प्रदेशपङ्क्तिः सर्वाकाश श्रोत्रादिव शार्तबन्धादिश्रेणिः परित्त त्ति, एकप्रदेशिकत्वेन विष्कम्भाभावेन परिमिता परिवुड त्ति श्रेण्यन्तरैः परिकरिता, स्वरूपमेतत्तस्याः, अत्रार्थे / जयन्तीप्रश्नाः दीक्षाच। वृद्धोक्ता भावनागाथा भवन्ति तो भन्नइ किं न सिज्झति अहव किमझवसावसेसत्ता। निल्लेवणं न जुज्जइ तेसिं तो कारणं अन्नं // 1 // अयमर्थः, यदिभवसिद्धिकाः सेत्स्यन्तीत्यभ्युपगम्यतेततोभणति शिष्यः, कस्मान्न तेसर्वेऽपि सिद्ध्यन्ति?, अन्यथा भवसिद्धिकत्वस्यैवाभावात्, अथवाऽपरं दूषणम्, कस्मादभव्यसावशेषत्वादभव्यावशेषत्वेनाभव्यान् विमुच्येत्यर्थः, तेषां भव्यानां // 933 // निर्लेपनंन युज्यते?, युज्यत एवेति भावः, यस्मादेवंततः कारणं सिद्धेर्हेतुरन्यद्भव्यत्वातिरिक्तं वाच्यं तत्र सति सर्वभव्यनिर्लेपन-1 0 तदा भणति किं न सिध्यन्ति अथवाऽभव्यावशिष्टत्वं (भवति) निर्लेपनं न युज्यते तेषां तद्भव्यत्वादन्यत्कारणं वाच्यं सिद्धेः // 1 //
SR No.600444
Book TitleVyakhyapragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy