________________ 8 शतके श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-२ // 563 // मानत्वात्काय औदारिकशरीरकायस्तस्य यः प्रयोग औदारिकशरीरस्य वा यः कायप्रयोगः स तथा, अयं च पर्याप्तकस्यैव वेदितव्यस्तेन यत् परिणतं तत्तथा, ओरालियमिस्सासरीरकायप्पयोगपरिणय त्ति, औदारिकमुत्पत्तिकालेऽसम्पूर्ण सत्, मिश्र कार्मणेनेत्यौदारिकमिश्रं तदेवौदारिकमिश्रकं तल्लक्षणं शरीरमौदारिकमिश्रकशरीरं तदेव कायस्तस्य यः प्रयोग औदारिकमिश्रकशरीरस्य वा य: कायप्रयोगः स औदारिकमिश्रकशरीरकायप्रयोगस्तेन परिणतं यत्तत्तथा, अयं पुनरौदारिकमिश्रकशरीरकायप्रयोगोऽपर्याप्तकस्यैव वेदितव्यः, यत आह जोएण कम्मएणं आहारेई अणंतरं जीवो। तेण परं मीसेणं जाव सरीरस्स निप्फत्ती॥ १॥(उत्पत्त्यनन्तरंजीव: कार्मणेन योगेनाहारयति ततो यावच्छरीरस्य निष्पत्तिः (शरीरपर्याप्तिः)तावदौदारिकमिश्रेणाहारयति // 1 // ) एवं तावत् कार्मणेनौदारिकशरीरस्य मिश्रतोत्पत्तिमाश्रित्य तस्य प्रधानत्वात्, यदा पुनरौदारिकशरीरी वैक्रियलब्धिसंपन्नो मनुष्यः पञ्चेन्द्रियतिर्यग्योनिकः पर्याप्तबादरवायुकायिको वा वैक्रियं करोति तदौदारिककाययोग एव वर्तमानः प्रदेशान्विक्षिप्य वैक्रियशरीरयोग्यान् पुद्गलानुपादाय यावद्वैक्रियशरीरपर्याप्त्या न पर्याप्तिं गच्छति तावद्वैक्रियेणौदारिकशरीरस्य मिश्रता, प्रारम्भकत्वेन तस्य प्रधानत्वात्, एवमाहारकेणाप्यौदारिकशरीरस्य मिश्रता वेदितव्येति, वेउब्वियसरीरकायप्पओगपरिणएत्ति, इह वैक्रियशरीरकायप्रयोगो वैक्रियपर्याप्तकस्येति / वेउब्वियमीसासरीरकायप्पओगपरिणए त्ति, इह वैक्रियमिश्रकशरीरकायप्रयोगो देवनारकेषूत्पद्यमानस्यापर्याप्तकस्य, मिश्रता चेह वैक्रियशरीरस्य कार्मणेनैव, लब्धिवैक्रियपरित्यागे त्वौदारिकप्रवेशाद्धायामौदारिकोपादानाय प्रवृत्ते वैक्रियप्राधान्यादौदारिकेणापि वैक्रियस्य मिश्रतेति / आहारगसरीरकायप्पयोगपरिणए त्ति, इहाहारकशरीरकायप्रयोग आहारकशरीरनिर्वृत्तौ सत्यां तदानीं तस्यैव प्रधानत्वात् / आहारगसरीरकायप्पयोगपरिणए त्ति, इहाहारकमिश्रशरीरकायप्रयोग आहारकस्यौदारिकेण मिश्रतायाम्, स चाहारकत्यागेनौदारिकग्रहणाभिमुखस्य, एतदुक्तं उद्देशकः१ पुद्गलपरिणामाधिकारः। सूत्रम् 313 एकद्रव्यपरिणामप्रश्नः। प्रयोगपरिणतादिभेद, मनःप्रयोगपरिणतादिप्रभेद सत्यादिऔदारिकादिप्रभेदभेदादिप्रश्नाः / // 563 //