SearchBrowseAboutContactDonate
Page Preview
Page 389
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्ग श्रीअभय. वृत्तियुतम् भाग-२ // 911 // महाबलपत्र जन्मोत्सव नामस्थापन नाध्ययनप्रासाद करणादि। तंतु वद्धणकरं ति कुलरूपो यः सन्तानः स एव तन्तुर्दीर्घत्वात्तवर्द्धनकरंमाङ्गल्यत्वाद्यत्र तत्तथा, अयमेयारूवं ति, इदमेतद्रूपम्, 11 शतके गोणं ति गौणं तच्चामुख्यमप्युच्यत इत्यत आह गुणनिप्फन्नं ति, जम्हाणं अम्ह मित्यादि, अस्माकमयंदारकः प्रभावतीदेव्यात्मजो उद्देशक: 11 कालायस्माद्बलस्य राज्ञः पुत्रस्तस्मात्पितु मानुसारिनामास्य दारकस्यास्तु महाबल इति / जहा दढपइन्ने त्ति यथौपपातिके दृढ- धिकारः। प्रतिज्ञोऽधीतस्तथाऽयं वक्तव्यः, तच्चैवं मज्जणधाईए मंडणधाईए कीलावणधाईए अंकधाईए त्यादि, निवाय-निव्वाघायंसी, इत्यादि सूत्रम् 429 च वाक्यमिहैवं सम्बन्धनीयम्, गिरिकंदरमल्लीणेव्व चंपगपायवे निवायनिव्वाघायंसि सुहंसुहेणं परिवड्डइ त्ति। परंगामणंति भूमौत सर्पणं पयचंकामणं ति पादाभ्यां सञ्चारणम्, जेमामणं ति भोजनकारणम्, पिंडवद्धणं ति कवलवृद्धिकारणम्, पज्जपावणं ति प्रजल्पनकारणम्, कण्णवेहणं ति प्रतीतम्, संवच्छरपडिलेहणं ति वर्षग्रन्थिकरणम्, चोलोयणं चूडाधरणम्, उवणयणं ति कलाग्राहणम्, गब्भाहाण-जम्मण-माइयाई कोउयाई करेंति त्ति गर्भाधानादिषु यानि कौतुकानि रक्षाविधानादीनि तानि गर्भाधानादीन्येवोच्यन्त इति गर्भाधानजन्मादिकानि कौतुकानीत्येवं समानाधिकरणतया निर्देशः कृतः, 30 एवं जहा दढपइन्नो, (राजप्र०१४७-१२)इत्यनेन यत्सूचितं तदेवं दृश्यं सोहणंसि तिहि-करण-नक्खत्त-मुहत्तंसि हायंकयबलिकम्मं कय-कोउय-मंगलपायच्छित्तं सव्वालंकार-विभूसियं महया इड्डिसक्कार-समुदएणं कलायरियस्स उवणयंती त्यादीति। अब्भुग्गयमूसियपहसिते इव, अभ्युद्गतोच्छ्रितान्नत्युच्चान्, इह चैवं व्याख्यानं द्वितीयाबहुवचनलोपदर्शनात्, पहसिते इव त्ति प्रहसितानिव श्वेतप्रभापटलप्रबलतया हसत इवेत्यर्थः, वन्नओ जहा रायप्पसेणइज्ज (प०८५-२) इत्यनेन यत्सूचितं तदिदम्, मणि-कणग-रयण-भत्तिचित्तवाउद्ध्यविजय-वेजयंती-पडागा-छत्ताइ-च्छत्तकलिए तुंगे गगणतलमभिलंघमाणसिहरइत्यादि,एतच्च प्रतीतार्थमेव,नवरं मणिकनक (r) पञ्चधात्रीनामैवम्- 1. क्षीरधात्री 2. मज्जनधात्री 3. मंडनधात्री 4. क्रीडाधात्री 5. अंकधात्री। // 911 //
SR No.600444
Book TitleVyakhyapragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy