SearchBrowseAboutContactDonate
Page Preview
Page 388
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-२ // 910 // 11 शतके उद्देशक: 11 कालाधिकारः। सूत्रम् 429 महाबलपुत्रजन्मोत्सवनामस्थापनपालनाध्ययनप्रासादकरणादि। अविद्यमानो भटानां राजाज्ञादायिनां पुरुषाणां प्रवेशः कुटुम्बिगेहेषु यस्यां सा तथा ताम्, अदंडकोदंडिमं ति दण्डलभ्यं द्रव्यं दण्ड एवं कुदण्डेन निर्वृत्तं द्रव्यं कुदण्डिमं तन्नास्ति यस्यांसाऽदण्डकुदण्डिमा ताम्, तत्र दण्डोऽपराधानुसारेण राजग्राह्यं द्रव्यं कुदण्डस्तु कारणिकानां प्रज्ञापराधान्महत्यप्यपराधिनोऽपराधेऽल्पं राजग्राह्यं द्रव्यमिति, अधरिमं ति, अविद्यमानधारणीयद्रव्याम्, ऋणमुत्कलनात्, गणियावर-नाडइज्ज-कलियं गणिकावरैर्वेश्याप्रधानैर्नाटकीयै नाटकसम्बन्धिभिः पात्रैः कलिता यासा तथा ताम्,अणेग-तालाचरा-णुचरियं नानाविधप्रेक्षाचारिसेवितामित्यर्थः,अणुद्धइय-मुइंगत्ति,अनुद्धता वादनार्थवादकैरविमुक्ता मृदङ्गा यस्यांसा तथा ताम्, अमिलाय-मल्लदाम मम्लानपुष्पमालाम्, पमुइय-पक्कीलियं ति प्रमुदितजनयोगात्प्रमुदिता प्रक्रीडितजनयोगात्प्रक्रीडिता ततः कर्मधारयोऽतस्ताम्, सपुर-जण-जाणवयं सह पुरजनेन जानपदेन च जनपदसम्बन्धिजनेन या वर्त्तते सा तथा ताम्, वाचनान्तरे विजय-वेजइयं ति दृश्यते तत्र चातिशयेन विजयो विजयविजयः स प्रयोजनं यस्याः सा विजयवैजयिकी ताम्, ठिइवडियं ति स्थितौ कुलस्य लोकस्य वा मर्यादायां पतिता गता या पुत्रजन्ममहप्रक्रिया सा स्थितिपतिताऽतस्ताम्, दसाहियाए त्ति दशाहिकायां दशदिवसप्रमाणायाम्, जाए यत्ति यागान् पूजाविशेषान्, दाए यत्ति दायांश्च दानानि, भाए य त्ति भागांश्च विवक्षितद्रव्यांशान्, चंद-सूर-दंसणियं ति चन्द्रसूर्यदर्शनाभिधानमुत्सवम्, जागरियं ति रात्रिजागरणरूपमुत्सवविशेषम्, निव्वत्ते असुइजायकम्मकरणे त्ति निवृत्तेऽतिक्रान्तेऽशुचीनांजातकर्मणा करणमशुचिजातकर्मकरणं तत्र, संपत्ते बारसाहदिवसे त्ति संप्राप्ते द्वादशाख्यदिवसे, अथवा द्वादशानामह्नां समाहारो द्वादशाहं तस्य दिवसो द्वादशाहदिवसो येन स पूर्यते तत्र, कुलाणुरूवं ति कुलोचितम्, कस्मादेवम्? इत्याह कुलसरिसं ति कुलसदृशम्, तत्कुलस्य बलवत्पुरुषकुलत्वान्महाबल इति नाम्नश्च बलवदर्थाभिधायकत्वात्तत्कुलस्य महाबल इति नाम्नश्च सादृश्यमिति, कुलसंताण 10 //
SR No.600444
Book TitleVyakhyapragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy