SearchBrowseAboutContactDonate
Page Preview
Page 382
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्य श्रीअभय वृत्तियुतम् भाग-२ // 904 // सूत्रम् 428 पल्यो०साग० क्षयापचय भवकथा। | बलराज पसत्थविच्छिन्नकेसरसडोवसोहियं मृदवः, विसद त्ति स्पष्टाः सूक्ष्माः, लक्खणपसत्थ त्ति प्रशस्तलक्षणाः, विस्तीर्णाः पाठान्तरेण 11 शतके विकीर्णा याः केशरसटाः स्कन्धकेशच्छटास्ताभिरुपशोभितो यः स तथा तम्, ऊसिय-सुनिम्मिय-सुजाय-अप्फोडिय-लंगूलं, उद्देशक: 11 कालाउच्छ्रितमूर्धीकृतम्, सुनिर्मितं सुष्ठवधोमुखीकृतम्, सुजातं शोभनतया जातमास्फोटितं च भूमावास्फालितं लागलं येन स. धिकारः। तथा तम् // 17 अतुरियमचवलं ति देहमनश्चापल्यरहितं यथा भवत्येवम्, असंभंताए त्ति, अनुत्सुकया, रायहंससरिसीए त्ति राजहंसगतिसदृश्येत्यर्थः, आसत्थ त्ति, आश्वस्ता गतिजनितश्रमाभावात्, वीसत्थ त्ति विश्वस्ता सङ्कोभाभावादनुत्सुका वा, सुहासणवरगय त्ति सुखेन सुखं वा शुभं वाऽऽसनवरं गता या सा तथा, धाराहय-नीव-सुरहि-कुसुम-चंचुमालइय-तणु त्ति हेतुकथने तस्यपूर्वधाराहतनीपसुरभिकुसुममिव, चंचुमालइय त्ति पुलकिता तनुः शरीरं यस्य स तथा, किमुक्तं भवति? ऊसविय-रोमकूवे त्ति, उच्छ्रितानि रोमाणि कूपेषु तद्रन्ध्रेषु यस्य स तथा, मइपुव्वेणं त्ति, आभिनिबोधिकप्रभवेन बुद्धिविन्नाणेणं तिमतिविशेषभूतोत्पत्ति प्रभावतीक्यादिबुद्धिरूपपरिच्छेदेन, अत्थोग्गहणं ति फलनिश्चयम्, 19 आरोग्ग-तुट्ठि-दीहाउ-कल्लाण-मंगल्लकारए णं ति, इह सिंहस्वप्न दर्शन:स्वप्नकल्याणान्यर्थप्राप्तयः, मङ्गलान्यनर्थप्रतिघाताः, अत्थलाभो देवाणुप्पिए! भविष्यतीति शेषः, कुलकेउं ति केतुश्चिह्न ध्वज इत्यनर्थान्तरं केतुरिव केतुरद्भुतत्वात् कुलस्य केतुः कुलकेतुस्तम्, एवमन्यत्रापि, कुलदीवं ति दीप इव दीपः प्रकाशकत्वात्, गर्भरक्षण कुलपव्वयं ति पर्वतोऽनभिभवनीयस्थिराश्रयतासाधर्म्यात्, कुलवडेंसयं ति कुलावतंसकं कुलस्यावतंसकः शेखर उत्तमत्वात्, कुलतिलयं ति तिलको विशेषको भूषकत्वात्, कुलकित्तिकरं ति, इह कीर्त्तिरेकदिग्गामिनी प्रसिद्धिः, कुलनंदिकरं ति // 904 // तत्समृद्धिहेतुत्वात्, कुलजसकर ति, इह यशः सर्वदिग्गामी प्रसिद्धिविशेषः, कुलपायवं ति पादपश्चाश्रयणीयच्छायत्वात्, कुलविवड्डणकरं ति विविधैः प्रकारैर्वर्द्धनं विवर्धनं तत्करणशीलम्, अहीण-पुत्र-पंचिंदिय-सरीरं ति, अहीनानिस्वरूपतः पूर्णानि पाठक पुत्रजन्मवर्धापनादि।
SR No.600444
Book TitleVyakhyapragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size15 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy