________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-२ / / 887 // तु प्रदेशार्थतया यावन्तः सर्वगोलकाः सकलगोलकास्तावन्त इति गम्यम्, स चोत्कृष्टपदगतैकजीवप्रदेशराशिमन्तव्यः, सकलगोलकानां तत्तुल्यत्वादिति // किं कारणमोगाहणतुल्लत्ता जियनिगोयगोलाणं / गोला उक्कोसपएक्कजियपएसेहिं तो तुल्ला // 20 // किं कारणं ति कस्मात्कारणाद्यावन्तः सर्वगोलास्तावन्त एवोत्कृष्टपदगतैकजीवप्रदेशाः? इति प्रश्नः, अत्रोत्तरम्, अवगाहनातुल्यत्वात्, केषामियमित्याह, जीवनिगोदगोलानाम्, अवगाहनातुल्यत्वं चैषामङ्गलासङ्खयेयभागमात्रावगाहित्वादिति प्रश्नः, यस्मादेवंतोत्ति तस्मादोलाः सकललोकसम्बन्धिन उत्कृष्टपदेय एकस्य जीवस्य प्रदेशास्ते तथा तैरुत्कृष्टपदैकजीवप्रदेशैस्तुल्या भवन्ति / एतस्यैव भावनार्थमुच्यते, गोलेहि हिए लोगे आगच्छइ जं तमेगजीवस्स / उक्कोसपय-गय-पएस-रासितुल्लं हवइ जम्हा।। 21 // 'गोलैः' गोलावगाहनाप्रदेशैः, कल्पनया दशसहस्रसङ्ख्यैः, हृते विभक्ते हृतभाग इत्यर्थः, लोके लोकप्रदेशराशी कल्पनयैककोटीशतप्रमाणे, आगच्छति लभ्यते, यत् सर्वगोलसङ्ख्यास्थानम्, कल्पनया लक्षमित्यर्थः, तदेकजीवस्य सम्बन्धिना पूर्वोक्तप्रकारतः कल्पनया लक्षप्रमाणेनैवोत्कृष्टपदगतप्रदेशराशिना तुल्यं भवति यस्मात्तस्माद्गोला उत्कृष्टपदैकजीवप्रदेशैस्तुल्या भवन्तीति प्रकृतमेवेति / एवं गोलकानामुत्कृष्टपदगतैकजीवप्रदेशानां च तुल्यत्वं समर्थितम्, पुनस्तदेव प्रकारान्तरेण समर्थयति, अहवा लोगपएसे एक्कक्के ठविय गोलमेक्कक्कं / एवं उक्कोसपएक्कजियपएसेसु मायति // 22 // अथवा लोकस्यैव प्रदेश एकैकस्मिन् स्थापय निधेहि विवक्षितसमत्वबुभुत्सो! गोलकमेकैकम्, ततश्चैवमुक्तक्रमस्थापने उत्कृष्टपदेय एकजीवप्रदेशास्ते तथा तेषु तत्परिमाणेष्वाकाशप्रदेशेष्वित्यर्थः,मान्ति गोला इति गम्यम्, यावन्त उत्कृष्टपदे एकजीवप्रदेशास्तावन्तो गोलका अपि भवन्तीत्यर्थः, तेच कल्पनया किल लक्षप्रमाणा उभयेऽपीति। अथ सर्वजीवेभ्य उत्कृष्टपदजीवप्रदेशा विशेषाधिका इति बिभणिषुस्तेषां सर्वजीवानां च तावत्समतामाह, गोलो जीवो य समा पएसओ जं च सव्वजीवावि / होति 11 शतके उद्देशक: 10 लोकाधिकारः। सूत्रम् 423 एकाकाशप्रदेशे जीवप्रदेशानामल्पबहुत्वादिप्रश्नाः निगोदषत्रिंशिका।