SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-२ // 888 // समोगाहणया मज्झिमओगाहणं पप्प // 23 // गोलको जीवश्च समौ प्रदेशतोऽवगाहनाप्रदेशानाश्रित्य, कल्पनया द्वयोरपि प्रदेशदशसहस्यामवगाढत्वात्, जं च त्ति यस्माच्च सर्वजीवा अपि सूक्ष्मा भवन्ति समावगाहनका मध्यमावगाहनामाश्रित्य, कल्पनया हि जघन्यावगाहना पञ्चप्रदेशसहस्राण्युत्कृष्टा तु पञ्चदशेति द्वयोश्च मीलनेनार्डीकरणेन च दशसहस्राणि मध्यमा भवतीति // तेण फुडं चिय सिद्धं एगपएसंमि जे जियपएसा / ते सव्वजीतुल्ला सुणसु पुणो जह विसेसहिया / / 24 // इह किलासद्भावस्थापनया कोटीशतसङ्ख्यप्रदेशस्य जीवस्याकाशप्रदेशदशसहस्त्रामवगाढस्य जीवस्य प्रतिप्रदेशं प्रदेशलक्षं भवति, तच्च पूर्वोक्तप्रकारतो निगोदवर्त्तिना जीवलक्षण गुणितं कोटीसहस्रं भवति, पुनरपि च तदेकगोलवर्तिना निगोदलक्षेण गुणितं कोटीकोटीदशकप्रमाणं भवति, जीवप्रमाणमप्येतदेव, तथाहि, कोटीशतसंख्यप्रदेशे लोके दशसहस्रावगाहिनां गोलानां लक्षं भवति, प्रतिगोलकं च निगोदलक्षकल्पनान्निगोदानां कोटीसहस्त्रं प्रतिनिगोदं च जीवलक्षकल्पनात् सर्वजीवानां कोटीकोटीदशकं भवतीति // अथ सर्वजीवेभ्य उत्कृष्टपदगतजीवप्रदेशा विशेषाधिका इति दर्श्यते, जं संति केइ खंडा गोला लोगंतवत्तिणो अन्ने। बायरविग्गहिएहि य उक्कोसपयं जमब्भहियं // 25 // यस्माद्विद्यन्ते केचित्खण्डा गोला लोकान्तवर्तिनः, अन्नेत्ति पूर्णगोलकेभ्योऽपरेऽतो जीवराशिः कल्पनया कोटीकोटीदशकरूपऊनो भवति पूर्णगोलकतायामेव तस्य यथोक्तस्य भावात्, ततश्च येन जीवराशिना खण्डगोलका पूर्णीभूताः स सर्वजीवराशेरपनीयतेऽसद्भूतत्वात्तस्य, स च किल कल्पनया कोटीमानः, तत्र चापनीते सर्वजीवराशिः स्तोकतरो भवति, उत्कृष्टपदं तु यथोक्तप्रमाणमेवेति तत्त्वतो विशेषाधिकं भवति, समता पुनः खण्डगोलानां पूर्णताविवक्षणादुक्तेति, तथा बादरविग्रहिकैश्च-बादरनिगोदादिजीवप्रदेशैश्चोत्कृष्टपदं यद्, यस्मात्सर्वजीवराशेरभ्यधिकं ततः सर्वजीवेभ्य उत्कृष्टपदे जीवप्रदेशा विशेषाधिका भवन्तीति, इयमत्र भावना 11 शतके उद्देशक: 10 लोकाधिकारः। सूत्रम् 423 एकाकाशप्रदेशे जीवप्रदेशानामल्पबहुत्वादिप्रश्नाः / निगोदषट्त्रिंशिका। // 888 //
SR No.600444
Book TitleVyakhyapragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy