________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-२ // 883 // लोका प्रश्नाः / न भवतीत्यर्थः, सम्पूर्णगोलकश्च लोकमध्य एव स्यादिति ॥अथ परिवचनमाशङ्कमान आह, उक्कोसमसंखगुणं जहन्नयाओ पयं 11 शतके हवइ किं तु? / नणु तिदिसिंफुसणाओ छद्दिसिफुसणा भवे दुगुणा / / 4 / उत्कर्षमुत्कृष्टपदमसङ्ख्यातगुणं जीवप्रदेशापेक्षया उद्देशक: 10 जघन्यकात्पदादिति गम्यम्, भवति किन्तुकथं तु, न भवतीत्यर्थः, कस्मादेवम्? इत्याह ननु निश्चितम्, अक्षमायां वा ननुशब्दः, धिकारः। त्रिदिक्स्पर्शनायाः सकाशात् षड्दिक्स्पर्शना भवेद्विगुणेति, इह च काकुपाठाद्धेतुत्वं प्रतीयत इति, अतो द्विगुणमेवोत्कृष्टं / सूत्रम् 423 एकाकाशपदं स्यादसङ्ख्यातगुणंच तदिष्यते, जघन्यपदाश्रितजीवप्रदेशापेक्षयाऽसङ्खचातगुणसर्वजीवेभ्योविशेषाधिकजीवप्रदेशो- प्रदेशे जीवपेतत्वात्तस्येति / इहोत्तरम्, थोवा जहन्नयपए निगोयमित्तावगाहणाफुसणा। फुसणासंखगुणत्ता उक्कोसपए असंखगुणा // 5 // स्तोका प्रदेशानाम ल्पबहुत्वादिजीवप्रदेशा जघन्यपदे, कस्मात्? इत्याह, निगोदमात्रे क्षेत्रेऽवगाहना येषांते तथैकावगाहना इत्यर्थः, तैरेव यत्स्पर्शनमवगाहनं निगोदजघन्यपदस्य तन्निगोदमात्रावगाहनस्पर्शनं तस्मात्, खण्डगोलकनिष्पादकनिगोदैस्तस्यासंस्पर्शनादित्यर्थः, भूम्यासन्नापवरक त्रिंशिका। कोणान्तिमप्रदेशसदृशो हि जघन्यपदाख्यःप्रदेशः, तं चालोकसम्बन्धादेकावगाहना एव निगोदाः स्पृशन्ति, न तु खण्डगोलनिष्पादकाः, तत्र किल जघन्यपदंकल्पनया जीवशतं स्पृशति, तस्य च प्रत्येकं कल्पनयैव प्रदेशलक्षं तत्रावगाढमित्येवं जघन्यपदे कोटी जीवप्रदेशानामवगाढेत्येवं स्तोकास्तत्र जीवप्रदेशा इति / अथोत्कृष्टपदजीवप्रदेशपरिमाणमुच्यते फुसणासंखगुणत्त त्ति स्पर्शनाया उत्कृष्टपदस्य पूर्णगोलकनिष्पादकनिगोदैः संस्पर्शनाया यदसङ्कचातगुणत्वं जघन्यपदापेक्षया तत्तथा तस्माद्धेतोरुत्कृष्टपदेऽसङ्गयातगुणा जीवप्रदेशा जघन्यपदापेक्षया भवन्ति, उत्कृष्टपदं हि सम्पूर्णगोलकनिष्पादकनिगोदैरेकावगाहनैरसङ्कयेयैः तथोत्कृष्टपदाविमोचनेनैकैक प्रदेशपरिहानिभिः प्रत्येकमसङ्खयेयैरेव स्पृष्टम्, तच्च किल कल्पनया कोटीसहस्रेण जीवानां स्पृश्यते, तत्र च प्रत्येकं जीवप्रदेशलक्षस्यावगाहनाजीवप्रदेशानां दशकोटीकोट्योऽव //