SearchBrowseAboutContactDonate
Page Preview
Page 353
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-२ // 875 // सम्मं ॥१॥(आकाशस्य प्रदेशा ऊर्द्धं चाधश्च तिर्यग्लोके च / जानीहि क्षेत्रलोकमनन्तजिनदेशितम् सम्यक्॥१॥) काललोए त्ति कालः समयादिः तद्रूपो लोकः काललोकः, आह च समयावली मुहत्ता दिवसअहोरत्तपक्खमासा य। संवच्छरजुगपलिया सागरउस्सप्पिपरियट्टा॥१॥ (समय आवलिका मुहूर्तो दिवसोऽहोरात्रं पक्षो मासश्च संवत्सरो युगं पल्यः सागर उत्सर्पिणी परावर्त्तः॥१॥) भावलोए त्ति भावलोको द्वेधाऽऽगमतो नोआगमतश्च, तत्रागमतो लोकशब्दार्थज्ञस्तत्र चोपयुक्तः भावरूपो लोको भावलोक इति नो आगमतस्तु भावा औदयिकादयस्तद्रूपो लोको भावलोकः, आह च ओदइए उवसमिए खइए या तहा खओवसमिए य। परिणामसन्निवाए य छव्विहो भावलोगो उ॥१॥(औदायिक औपशमिकः क्षायिकश्च तथा क्षायोपशमिकश्च। पारिणामिकश्च सन्निपातश्च षड्विधो भावलोकस्तु॥१॥) इति, इह नोशब्दः सर्वनिषेधे मिश्रवचनो वा, आगमस्य ज्ञानत्वात् क्षायिकक्षायोपशमिकज्ञानस्वरूपभावविशेषेण च मिश्रत्वादौदयिकादिभावलोकस्येति।२अहेलोयखेत्तलोए त्ति, अधोलोकरूपः क्षेत्रलोकोऽधोलोकक्षेत्रलोकः, इह किलाष्टप्रदेशोरुचकस्तस्य चाधस्तनप्रतरस्याधो नव योजनशतानि यावत्तिर्यग्लोकस्ततः परेणाधःस्थितत्वादधोलोकः साधिकसप्तरज्जुप्रमाणः, तिरियलोयखेत्तलोए त्ति रुचकापेक्षयाऽध उपरिच नव 2 योजनशतमानस्तिर्यग्रूपत्वात्तिर्यग्लोकस्तद्रूपः क्षेत्रलोकस्तिर्यग्लोकक्षेत्रलोकः, उड्डलोयखेत्तलोए त्ति तिर्यग्लोकस्योपरि देशोनसप्तरज्जुप्रमाण ऊर्द्धभागवर्त्तित्त्वादूर्द्धलोकस्तद्रूपः क्षेत्रलोक ऊर्द्धलोकक्षेत्रलोकः, अथवाऽधः-अशुभः परिणामो बाहुल्येन क्षेत्रानुभावाद्यत्र लोके द्रव्याणामसावधोलोकः, तथा तिर्यङ् मध्यमानुभावं क्षेत्रं नातिशुभं नाप्यत्यशुभं तद्रूपो लोकस्तिर्यग्लोकः, तथोर्द्ध शुभः परिणामो बाहुल्येन द्रव्याणां यत्रासावूर्द्धलोकः, आह च, अहव अहोपरिणामो खेत्तणुभावेण जेण ओसन्नं / असुहो अहोत्ति भणिओ क्वाणं तेणऽहोलोगो॥१॥ इत्यादि, 6 तप्पागारसंठिए त्ति तप्र उडुपकः, अधोलोकक्षेत्र |11 शतके | उद्देशक: 10 लोकाधिकारः। सूत्रम् 420 लोकस्यक्षेत्रादिअधोक्षेत्रादिभेदप्रभेदादि | तेषांसंस्थानजीवरूपादि, एकाकाशप्रदेशे जीवादि, द्रव्यतोलोकादि|प्रश्नाः / 8 // 875 //
SR No.600444
Book TitleVyakhyapragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy