________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-२ // 871 // 11 शतके उद्देशकः 9 शिवराजर्षिरधिकारः। सूत्रम् 419 सिद्धसंघयण, संस्थानोचत्वायुर्परिवसनादिप्रश्नाः / त्ति पुद्गलद्रव्याणि, अवन्नाइंपित्ति धर्मास्तिकायादीनि, अन्नमनबद्धाइं त्ति परस्परेण गाढाश्लेषाणि, अन्नमन्नपुट्ठाई ति परस्परेण गाढाश्लेषाणि, इह यावत्करणादिदमेवं दृश्यम्, अन्नमनबद्धपुट्ठाई अन्नमन्नघडत्ताए चिट्ठति तत्र चान्योऽन्यबद्धस्पृष्टान्यनन्तरोक्तगुणद्वययोगात्, किमुक्तं भवति?, अन्योऽन्यघटतया परस्परसम्बद्धतया तिष्ठन्ति, 18 तावसावसहेत्ति तापसावसथ: तापसमठ इति // 418 // अनन्तरं शिवराजर्षेः सिद्धिरुक्ता, तां च संहननादिभिर्निरूपयन्निदमाह 20 भंतेत्ति भगवं गोयमे समणं भ० म० वंदइ नमं० २त्ता एवं व०- जीवा णं भंते! सिज्झमाणा कयरंमि संघयणे सिझंति?, गोयमा! वयरोसभणारायसं० सि एवं जहेव उववाइए तहेव संघयणं संठाणं उच्चत्तं आउयं च परिवसणा, एवं सिद्धिगंडिया निरवसेसा भाणियव्वा जाव अव्वाबाहं सोक्खं अणुहवं (हुंती) ति सासया सिद्धा। सेवं भंते! रत्ति ॥सूत्रम् 419 // सिवोसमत्तो॥११-९॥ 20 भंते त्ती त्यादि, अथ लाघवार्थमतिदेशमाह, एवं जहेवेत्यादि, एवमनन्तरदर्शितेनाभिलापेन यथौपपातिके (प०११२१) सिद्धानधिकृत्य संहननाद्युक्तं तथैवेहापि वाच्यम्, तत्र च संहननादिद्वाराणं सङ्ग्रहाय गाथापूर्वार्द्ध संघयणं संठाणं उच्चत्तं आउयं च परिवसण त्ति तत्र संहननमुक्तमेव, संस्थानादि त्वेवम्, तत्र संस्थाने षण्णां संस्थानानामन्यतरस्मिन् सिद्ध्यन्ति, उच्चत्वे तु जघन्यतः सप्तरत्निप्रमाणे, उत्कृष्टतस्तु पञ्चधनुःशतके, आयुषि पुनर्जघन्यतः सातिरेकाष्टवर्षप्रमाणे, उत्कृष्टतस्तु पूर्वकोटीमाने, परिवसना पुनरेवम्, रत्नप्रभादिपृथिवीनां सौधर्मादीनांचेषत्प्राग्भारान्तानां क्षेत्रविशेषाणामधो न परिवसन्ति सिद्धाः किन्तु सर्वार्थसिद्धमहाविमानस्योपरितनात्स्तूपिकाग्रादूर्द्ध द्वादश योजनानि व्यतिक्रम्येषत्प्राग्भारा नाम पृथिवी पञ्चचत्वारिंशद्योजनलक्षप्रमाणाऽऽयामविष्कम्भाभ्यां वर्णतः श्वेताऽत्यन्तरम्याऽस्ति तस्याश्चोपरि योजने लोकान्तो भवति, तस्य च योजनस्योपरितनगव्यूतोपरितनषड्भागे सिद्धाः परिवसन्तीति, एवं सिद्धिगंडिया निरवसेसा भाणियव्व त्ति, // 871 //