________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-२ // 857 // 3 / 6 उच्चत्वद्वारे साइरेगंजोयणसहस्सं ति तथाविधसमुद्रगोतीर्थकादाविदमुच्चत्वमुत्पलस्यावसेयम् 4 / 7 बन्धद्वारे बंधए बंधया व त्ति, एकपत्रावस्थायां बन्धक एकत्वाद्व्यादिपत्रावस्थायां च बन्धका बहुत्वादिति, एवं सर्वकर्मसु, 8 आयुष्के तु तदबन्धावस्थाऽपिस्यात्तदपेक्षया चाबन्धकोऽपि, अबन्धका अपिच भवन्तीति, एतदेवाह नवर मित्यादि, इह बन्धकाबन्धकपदयोरेकत्वयोग एकवचनेन द्वौ विकल्पो बहुवचनेन च द्वौ द्विकयोगे तु यथायोगमेकत्वबहुत्वाभ्यां चत्वार इत्येवमष्टौ विकल्पाः , स्थापना-बं१, अ१, बं३, अ३, बं 1, अ१, बं१, अ३, बं३, अ१, बं३ अबं 3 / 5 / 9 वेदनद्वारे ते भदन्त! जीवा ज्ञानावरणीयस्य कर्मणः किं वेदका अवेदकाः?, अत्राप्येकपत्रतायामेकवचनान्तता अन्यत्र तु बहुवचनान्तता एवं यावदन्तरायस्य, 10 वेदनीये सातासाताभ्यां पूर्ववदष्टौ भङ्गाः, इह च सर्वत्र प्रथमपत्रापेक्षयैकवचनान्तता, ततः परंतु बहुवचनान्तता, वेदनम्, अनुक्रमोदितस्योदीरणोदीरितस्य वा कर्मणोऽनुभवः, उदयश्चानुक्रमोदितस्यैवेति वेदकत्वप्ररूपणेऽपि भेदेनोदयित्वप्ररूपण 7 मिति // 11 उदीरणाद्वारे नो अणुदीरग त्ति तस्यामवस्थायां तेषामनुदीरकत्वस्यासम्भवात् / 12 वेयणिज्जाउएसु अट्ठभंग त्ति वेदनीये सातासातापेक्षयाऽऽयुषि पुनरुदीरकत्वानुदीरकत्वापेक्षयाऽष्टौ भङ्गाः, अनुदीरकत्वंचायुष उदीरणायाः कादाचित्कत्वादिति // 13 लेश्याद्वारेऽशीतिर्भङ्गाः, कथम्?, एककयोगे एकवचनेन चत्वारो बहुवचनेनापि चत्वार एव, द्विकयोगे तु यथायोगमेकवचनबहुवचनाभ्यां चतुर्भङ्गी, चतुर्णां च पदानां षड् द्विकयोगास्ते च चतुर्गुणाचतुर्विंशतिः, त्रिकयोगे तु त्रयाणां पदानामष्टौ भङ्गाः, चतुर्णां च पदानां चत्वारस्त्रिकसंयोगास्ते चाष्टाभिर्गुणिता द्वात्रिंशत्, चतुष्कसंयोगे तु षोडश भङ्गाः, सर्वमीलने चाशीतिरिति, अत एवोक्तं गोयमा! कण्हलेसे वे त्यादि॥१८ वर्णादिद्वारे ते पुण अप्पणा अवन्न त्ति शरीराण्येव तेषां पञ्चवर्णादीनि ते पुनरुत्पलजीवाः, अप्पण त्ति स्वरूपेण, अवर्णा वर्णादिवर्जिता |11 शतके उद्देशकः 1 उत्पला|धिकारः। सङ्ग्रहगाथा सूत्रम् 409 उत्पलस्यैकानेकजीवीत्व कुतरागमत्व परिमाणोत्पातावगाहना कर्मबन्धवेदोदयत्वादिलेश्योपयोगादिकायस्थिति अन्यगमनसर्वजीवोत्पादादिप्रश्नाः / // 857 //