________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-२ // 856 // 11 शतके उद्देशकः 1 उत्पलाधिकारः / सङ्ग्रहगाथा सूत्रम् 409 उत्पलस्यैकानेकजीवीत्व कुतरागमत्व तदर्थः पञ्चमः 5, पउम त्ति पद्मार्थः षष्ठः 6, कन्नीय त्ति कर्णिकार्थः सप्तमः 7, नलिण त्ति नलिनार्थोष्टमः 8, यद्यपि चोत्पलपद्मनलिनानां नामकोश एकार्थतोच्यते तथाऽपीह रूढेर्विशेषोऽवसेयः, सिव त्ति शिवराजर्षिवक्तव्यतार्थो नवमः 9, लोग त्ति लोकार्थो दशमः 10, काललभिए त्ति कालार्थ एकादशः 11, आलभिकायां नगर्यां यत्प्ररूपितं तत्प्रतिपादक उद्देशकोऽप्यालभिक इत्युच्यते ततोऽसौ द्वादश 12, दस दो य एक्कारि त्ति द्वादशोद्देशका एकादशेशते भवन्तीति ॥१॥तत्र प्रथमोद्देशकद्वारसङ्घहगाथा वाचनान्तरे दृष्टास्ताश्चेमाः, उववाओ इत्यादि, एतासां चार्थ उद्देशकार्थाधिगमगम्य इति // 2 उप्पले णं भंते! एगपत्तए इत्यादि, उत्पलं नीलोत्पलाद्येकं पत्रं यत्र तदेकपत्रकमथवैकंच तत्पत्रं चैकपत्रंतदेवैकपत्रकम्, तत्र सति, एकपत्रक चेह किशलयावस्थाया उपरि द्रष्टव्यम्, एगजीवे त्ति यदा ह्येकपत्रावस्थं तदैकजीवंतत्, यदा तु द्वितीयादिपत्रं तेन समारब्धं भवति तदा नैकपत्रावस्था तस्येति बहवो जीवास्तत्रोत्पद्यन्त इति, एतदेवाह तेण पर मित्यादि, तेण परं ति ततः प्रथमपत्रात् परतः, जे अन्ने जीवा उववजंति त्ति येऽन्ये प्रथमपत्रव्यतिरिक्ता जीवा जीवाश्रयत्वात्पत्रादयोऽवयवा उत्पद्यन्ते ते नैकजीवा नैकजीवाश्रयाः किन्त्वनेकजीवाश्रया इति, अथवा तेणे त्यादि, तत एकपत्रात्परतः शेषपत्रादिष्वित्यर्थः, येऽन्ये जीवा उत्पद्यन्ते ते नैकेकजीवाः, नैककाः किन्त्वनेकजीवा अनेके इत्यर्थः॥ 3 ते णं भंते! जीव त्ति य उत्पले प्रथमपत्राद्यवस्थायामुत्पद्यन्ते,जहा वक्कंतीए त्ति प्रज्ञापनायाः षष्ठपदे(प०२०४), स चैवमुपपातः, जइ तिरिक्खजोणिएहिंतो उववजंति किं एगिदियतिरिक्खजो० उव. जाव पंचिंदियतिरिक्खजो० उव.?, गोयमा! एगिदियतिरिक्खजो वि उव० इत्यादि, एवं मनुष्यभेदा वाच्याः, जइ देवेहिंतो उववजंति किं भवणवासी त्यादि प्रश्नो निर्वचनं चेशानान्तदेवेभ्य उत्पद्यन्त इत्युपयुज्य वाच्यमिति, तदेतेनोपपात उक्तः॥ 4 जहन्नेण एक्को वे त्यादिना तु परिमाणम् 215 ते णं असंखेज्जा समए इत्यादिना त्वपहार उक्तः, एवं द्वारयोजना कार्या परिमाणोत्पातावगाहना कर्मबन्धवेदोदयत्वादिलेश्योपयोगादिकायस्थिति अन्यगमनसर्वजीवोत्पादादिप्रश्नाः / 1 // 856 //