________________ श्रीभगवत्य श्रीअभय वृत्तियुतम् भाग-२ // 837 // शब्दभाषा 15 अनन्तरं खुखु त्ति प्ररूपितं तच्च शब्दः, स च भाषारूपोऽपि स्यादिति भाषाविशेषान् भाषणीयत्वेन प्रदर्शयितुमाह, 10 शतके अह भंते! इत्यादि, अथेति परिप्रश्नार्थः भंते! ति भदन्त! इत्येवं भगवन्तं महावीरमामन्त्र्य गौतमः पृच्छति, आसइस्सामो त्ति, उद्देशकः३ आत्मोल्लंआश्रयिष्यामो वयमाश्रयणीयं वस्तु, सइस्सामो त्ति शयिष्यामः, चिट्ठिस्सामो त्ति, ऊर्द्धस्थानेन स्थास्यामः, निसिइस्सामो त्ति घनाधिकारः। निषेत्स्याम उपवेक्ष्याम इत्यर्थः, तुयट्टिस्सामो त्ति संस्तारके भविष्याम इत्यादिका भाषा किं प्रज्ञापनी? इति योगः। अनेन सूत्रम् 402-403 चोपलक्षणपरवचनेन भाषाविशेषाणामेवंजातीयानां प्रज्ञापनीयत्वं पृष्टमथ भाषाजातीनांतत्पृच्छति, आमंतणि गाहा, तत्रा- अश्वस्यखुखुमन्त्रणी 'हे देवदत्ते!' त्यादिका, एषा च किल वस्तुनोऽविधायकत्वादनिषेधकत्वाच्च सत्यादिभाषात्रयलक्षणवियोगतश्चा प्रकारादिसत्यामृषेति प्रज्ञापनादावुक्ता, एवमाज्ञापन्यादि, कामपि, आणवणि त्ति, आज्ञापनी कार्ये परस्य प्रवर्त्तनी यथा घटं कुरु / प्रश्नाः / जायणि त्ति याचनी वस्तुविशेषस्य देहीत्येवंमार्गणरूपा तथेति समुच्चये, पुच्छणी यत्ति प्रच्छन्यविज्ञातस्य संदिग्धस्य वाऽर्थस्य ज्ञानार्थं तदभियुक्तप्रेरणरूपा, पण्णवणि त्ति प्रज्ञापनी विनेयस्योपदेशदानरूपा यथा पाणवहाओ नियत्ता भवंति दीहाउया अरोगाय। एमाई पन्नवणी पन्नत्ता वीयरागेहिं॥११॥ (प्राणवधान्निवृत्ता दीर्घायुषोऽरोगाश्च भवन्तीत्यादिः प्रज्ञापनी भाषा वीतरागैः प्रज्ञप्ता॥ 1 // ) पच्चक्खाणीभास त्ति प्रत्याख्यानी याचमानस्यादित्सा मेऽतो मां मा याचस्वेत्यादि प्रत्याख्यानरूपा भाषा, इच्छाणुलोम त्ति प्रतिपादयितुर्येच्छा तदनुलोमा तदनुकूलेच्छानुलोमा, यथा कार्ये प्रेरितस्यैवमस्तुममाप्यभिप्रेतमेतदिति वचः / अणभिगहिया भासा गाहा, अनभिगृहीताऽर्थानभिग्रहेण योच्यते डित्थादिवत्, भासा य अभिग्गहमि बोद्धव्वा भाषा चाभिग्रहे बोद्धव्या, अर्थमभिगृह्य योच्यते घटादिवत्, संसय करणी भासत्तियाऽनेकार्थप्रतिपत्तिकरीसा संशयकरणी यथा सैन्धवशब्दः पुरुषलवणवाजिषु वर्तमान इति, वोयड त्ति व्याकृता लोकप्रतीतशब्दार्था, अव्वोयड त्ति, अव्याकृता गम्भीरशब्दार्था मन्मनाक्षरप्रयुक्ता