________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-२ // 831 // 10 शतके उद्देशक:२ संवृत्तानगाराधिकारः। सूत्रम् 397-398 योनिवेदनयोः प्रकारप्रश्नाः। नेरइयाणं भंते! किं सीया जोणी उसिणा जोणी सीओसिणा जीणी?, गोयमा! सीयावि जोणी उसिणावि जोणी नो सीओसिणा जोणी त्यादि, अयमर्थः, सीयावि जोणि त्ति, आद्यासु तिसृषु नरकपृथिवीषु चतुर्थ्यां च केषुचिन्नरकावासेषु नारकाणां यदुपपातक्षेत्र तच्छीतस्पर्शपरिणतमिति तेषां शीताऽपि योनिः, उसिणावि जोणि त्ति शेषासु पृथिवीषु चतुर्थपृथिवीनरकावासेषु च केषुचिन्नारकाणां यदुपपातक्षेत्रं तदुष्णस्पर्शपरिणतमिति तेषामुष्णाऽपि योनिः, नो सीओसिणा जोणि त्ति न मध्यमस्वभावा योनिस्तथास्वभावत्वात्, शीतादियोनिप्रकरणार्थसङ्घहस्तु प्रायेणैवं सीओसिणजोणीया सव्वे देवा य गब्भवक्कंती। उसिणा य तेउकाए दुह निरए तिविह सेसेसु॥१॥गब्भवक्कंति त्ति गोत्पत्तिकाः। तथा कतिविहाणं भंते! जोणी पन्नत्ता?, गोयमा! तिविहा जोणी पन्नत्ता, तंजहा- सच्चित्ता अचित्ता मीसिये त्यादि, सच्चित्तादियोनिप्रकरणार्थसङ्ग्रहस्तु प्रायेणैवम्, अच्चित्ता खलु जोणी नेरइयाणं तहेव देवाणं। मीसा य गब्भवासे तिविहा पुण होइ सेसेसु // 2 // सत्यप्येकेन्द्रिसूक्ष्मजीवनिकायसम्भवे नारकदेवानां यदुपपातक्षेत्रं तन्न केनचिजीवेन परिगृहीतमित्यचित्ता तेषां योनिः, गर्भवासयोनिस्तु मिश्राशुक्रशोणितपुद्गलानामचित्तानांगर्भाशयस्य सचेतनस्य भावादिति, शेषाणां पृथिव्यादीनां संमूर्च्छनजानां च मनुष्यादीनामुपपातक्षेत्रे जीवेन परिगृहीतेऽपरिगृहीत उभयरूपे। चोत्पत्तिरिति त्रिविधाऽपि योनिरिति। तथा कतिविहाणं भंते! जोणी पन्नत्ता?, गोयमा! तिविहा जोणी पन्नत्ता, तंजहा- संवुडाजोणी वियडाजोणी संवुडवियडाजोणी त्यादि, संवृत्तादियोनिप्रकरणार्थसङ्ग्रहस्तु प्राय एवम्, एगिंदियनेरइया संवुडजोणी तहेव देवा य। विगलिंदिएसु वियडा संवुडवियडा य गन्भंमि // 1 // एकेन्द्रियाणां संवृता योनिस्तथास्वभावत्वात्, नारकाणामपि संवृतैव, यतो 0 शीतोष्णयोनिकाः सर्वे देवाश्च गर्भव्युत्पत्तिका उष्णा च तेजःकाये द्विधा नरके त्रिविधा शेषेषु // 1 // 0 अचित्ता खलु योनि रकाणां तथैव देवानां / मिश्रा च गर्भवासे त्रिविधा पुनर्भवति शेषेषु / / 1 // 0 एकेन्द्रिया नैरयिकाः संवृतयोनयस्तथैव देवाश्च / विकलेन्द्रियाणां विवृत्ता संवृतविवृता च गर्भे // 1 // // 831 //