________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-२ // 829 // 10 शतके उद्देशकः२ संवृत्तानगाराधिकारः। सूत्रम् 396 वीचिमतः संवृत्तानगारस्यक्रियाप्रश्नाः। ॥दशमशतके द्वितीयोद्देशकः।। अनन्तरोद्देशकान्ते शरीराण्युक्तानि शरीरी च क्रियाकारी भवतीति क्रियाप्ररूपणाय द्वितीय उद्देशकः, तस्य चेदमादिसूत्रम् 1 रायगिहे जाव एवं व०- संवुडस्स णं भंते! अणगारस्स वीयीपंथे ठिच्चा पुरओ रूवाई निज्झायमाणस्स मग्गओ रूवाई अवयक्खमाणस्स पासओरू० अवलोएमाणस्स उडेरू० ओलोएमाणस्स अहेरू. आलोएमाणस्स तस्सणंभंते! किं ईरियावहिया किरिया कज्जइसंपराइया किरिया कज्जइ?, गोयमा! संवुडस्सणं अणगारस्स वीयीपंथे ठिच्चा जाव तस्सणंणो ईरिया० कि० क. संप० कि० क०, सेकेणतुणं भंते! एवं वु० संव(वु?)ड० जाव संपराइया किरिया कज्जइ?, गोयमा! जस्सणं कोहमाणमायालोभा एवं जहा सत्तमसए पढमोद्देसए जाव से णं उस्सुत्तमेव रीयति, से तेणटेणं जाव संप० कि० क०।२ संवुडस्स णं भंते! अणगारस्स अवीयीपंथे ठिच्चा पुरओ रू० निज्झायमाणस्स जाव तस्सणं भंते! किं ईरिया० कि० क.?, पुच्छा, गोयमा! संवुड० जाव तस्स णं ईरियावहिया कि० क० नोसंपराइया किरिया कज्जइ, सेकेणतुणं भंते! एवं वु० जहा सत्तमे सए पढमोद्देसए जाव सेणं अहासुत्तमेव रीयति से तेणतुणं जाव नो संप० कि० क०॥ सूत्रम् 396 // १रायगिह इत्यादि, तत्र संवुडस्स त्ति संवृतस्य सामान्येन प्राणातिपाताद्याश्रवद्वारसंवरोपेतस्य, वीईपंथे ठिच्चे ति वीचिशब्दः सम्प्रयोगे, स च सम्प्रयोगोई(द्व)योर्भवति, ततश्चेह कषायाणा जीवस्य च सम्बन्धो वीचिशब्दवाच्यः ततश्च वीचिमतः कषायवतो मतुष्प्रत्ययस्य षष्ठ्याश्च लोपदर्शनात्, अथवा विचिर् पृथग्भाव इति वचनाद्विविच्य पृथग्भूय यथाऽऽख्यातसंयमात् कषायोदयमनपवार्येत्यर्थः, अथवा विचिन्त्य रागादिविकल्पादित्यर्थः, अथवा विरूपाकृतिः क्रियासरागत्वाद्यस्मिन्नवस्थाने तद्विकृति यथा भवतीत्येवं स्थित्वा पंथे त्ति मार्गेऽवयक्खमाणस्सत्ति, अवकासतोऽपेक्षमाणस्य वा, पथिग्रहणस्य चोपलक्षण //