SearchBrowseAboutContactDonate
Page Preview
Page 306
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-२ // 828 // 10 शतके उद्देशकः१ दिगधिकारः। सूत्रम् 395 शरीरस्यौदारिकादिभेदप्रभेदप्रश्राः / नास्तीति तत्राद्धासमयो न भण्यत इत्यर्थः। अथ विमलायामपि नास्त्यसाविति कथं तत्र समयव्यवहारः? इति, उच्यते, मन्दरावयवभूतस्फटिककाण्डे सूर्यादिप्रभासङ्कान्तिद्वारेण तत्र सञ्चरिष्णुसूर्यादिप्रकाशभावादिति // 394 ॥अनन्तरंजीवादिरूपा दिशः प्ररूपिताः, जीवाश्च शरीरिणोऽपि भवन्तीति शरीरप्ररूपणायाह ९कतिणंभंते! सरीरा पन्नत्ता?,गोयमा! पंच सरीराप०, तंजहा-ओरालिए जाव कम्मए।१० ओरालियसरीरेणंभंते! कतिविहे प०?, एवं ओगाहणसंठाणं(संठाणपदे) निरवसेसंभाणियव्वंजाव अप्पाबहुगंति / सेवं भंते! रत्ति ॥सूत्रम् 395 ॥दसमे सए पढमो उद्देसोसमत्तो॥१०-१॥ 9 कइणं भंते! इत्यादि, 10 ओगाहणसंठाणं ति प्रज्ञापनायामेकविंशतितमं पदम् (पद०२१ प० 407), तच्चैवं पंचविहे पन्नत्ते, तंजहा- एगिदियओरालियसरीरे जावपंचिंदियओरा इत्यादि, पुस्तकान्तरे त्वस्य सङ्ग्रहगाथोपलभ्यते, साचेयम्, कइसंठाणपमाणं पोग्गलचिणणा सरीरसंजोगो। दव्वपएसप्पबहुं सरीरओगाहणाए या॥१॥ तत्र च कतीति कति शरीराणीति वाच्यं तानि पुनरौदारिकादीनि पञ्च, तथा संठाणं ति, औदारिकादीनां संस्थानं वाच्यम्, यथा नानासंस्थानमौदारिकं तथा पमाणं ति एषामेव प्रमाणं वाच्यम्, यथा, औदारिकंजघन्यतोऽङ्गलासङ्खयेयभागमात्रमुत्कृष्टतस्तु सातिरेकयोजनसहस्रमानम्, तथैषामेव पुद्गलचयो वाच्यो, यथौदारिकस्य निर्व्याघातेन षट्सु दिक्षु व्याघातं प्रतीत्य स्यात्रिदिशीत्यादि, तथैषामेव संयोगो वाच्यो यथा यस्यौदारिकशरीरंतस्य वैक्रियं स्यादस्तीत्यादि, तथैषामेव द्रव्यार्थप्रदेशार्थतयाऽल्पबहुत्वं वाच्यं यथा सव्वत्थोवा आहारगसरीरा दव्वट्ठयाए इत्यादि, तथैषामेवावगाहनाया अल्पबहुत्वं वाच्यं यथा सव्वत्थोवा ओरालियसरीरस्स जहन्निया ओगाहणे त्यादि। 395 // दशमशते प्रथमोद्देशकः // 10-1 //
SR No.600444
Book TitleVyakhyapragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy