________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-२ // 827 // 10 शतके उद्देशकः१ दिगधिकारः। सङ्ग्रहगाथा। सूत्रम् 394 पूर्वादिदिग्रूपप्रकारनामादिप्रश्नाः / एवमाकाशास्तिकायस्यापि देशः प्रदेशाच५-६, अद्धासमयश्चेति 7, तदेवं सप्तप्रकारारूप्यजीवरूपैन्द्री दिगिति // 7 अग्गेयी णमित्यादिप्रश्नः, उत्तरे तु जीवा निषेधनीयाः, विदिशामेकप्रदेशिकत्वादेकप्रदेशे च जीवानामवगाहाभावात्, असङ्ख्यातप्रदेशावगाहित्वात्तेषाम्, तत्र जे जीवदेसा ते नियमा एगिदियदेस त्ति, एकेन्द्रियाणां सकललोकव्यापकत्वादाग्नेय्यां नियमादेकेन्द्रियदेशाः सन्तीति, अहवे त्यादि, एकेन्द्रियाणां सकललोकव्यापकत्वादेव द्वीन्द्रियाणां चाल्पत्वेन क्वचिदेकस्यापि तस्य सम्भवादुच्यते, एकेन्द्रियाणां देशाश्चद्वीन्द्रियस्य देशश्चेति द्विकयोगे प्रथमः, अथवैकेन्द्रियपदंतथैव द्वीन्द्रियपदे त्वेकवचनं देशपदे पुनर्बहुवचनमिति द्वितीयः, अयं च यदा द्वीन्द्रियो व्यादिभिर्देशैस्तां स्पृशति तदा स्यादिति, अथवैकेन्द्रियपदं तथैव द्वीन्द्रियपदं देशपदं च बहुवचनान्तमिति तृतीयः, स्थापना, एगिं० देसा 3 बेइं 1 देसे एगिं० देसा 3 बेइं 1 देसा 3 एगि० देसा 3 बेइं० 3 देसा 3 / एवं त्रीन्द्रियचतुरिन्द्रियपञ्चेन्द्रियानिन्द्रियैः सह प्रत्येकं भङ्ककत्रयं दृश्यम्, एवं प्रदेशपक्षोऽपि वाच्यः, नवरमिह द्वीन्द्रियादिषु प्रदेशपदं बहुवचनान्तमेव, यतो लोकव्यापकावस्थानिन्द्रियवर्जजीवानां यत्रैकः प्रदेशस्तत्रासङ्ख्यातास्ते भवन्ति लोकव्यापकावस्थानिन्द्रियस्य पुनर्यद्यप्येकत्र क्षेत्रप्रदेश एक एव प्रदेशस्तथाऽपि तत्प्रदेशपदे बहुवचन-8 मेवाग्नेय्यांतत्प्रदेशानामसङ्ख्यातानामवगाढत्वाद्, अतः सर्वेषु द्विकयोगेष्वाद्यविरहितंभकद्वयमेव भवतीत्येतदेवाह, आइल्लविरहिओ त्ति द्विकभङ्ग इति शेषः / 8 विमलाए जीवा जहा अग्गेईए त्ति विमलायामपि जीवानामनवगाहात्, अजीवा जहा इंदाए त्ति समानवक्तव्यत्वात्, एवं तमावित्ति विमलावत्तमाऽपिवाच्येत्यर्थः, अथ विमलायामनिन्द्रियसम्भवात्तद्देशादयो युक्तास्तमायां तु तस्यासम्भवात्कथं ते? इति, उच्यते, दण्डाद्यवस्थं तमाश्रित्य देशो देशाः प्रदेशाश्च विवक्षायां तत्रापि युक्ता एवेति / अथ तमायां विशेषमाह नवर मित्यादि, अद्धासमयो न भन्नइ त्ति समयव्यवहारो हि सञ्चरिष्णुसूर्यादिप्रकाशकृतः, सच तमायां // 27 //