________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-२ // 826 // 10 शतके उद्देशकः१ दिगधिकारः। सङ्ग्रहगाथा। सूत्रम् 394 पूर्वादिदिगरूपप्रकारनामादिप्रश्ना : / अग्गेयी सोमा जहा इंदा ईसाणी जहा अग्गेयी, विमलाए जीवा जहा अग्गेयी, अजीवा जहा इंदा, एवं तमाएवि, नवरं अरूवी छव्विहा अद्धासमयो न भन्नति ॥सूत्रम् 394 // 2 किमियं भंते! पाईणत्ति पवुच्चइ त्ति किमेतद्वस्तु यत् प्रागेव प्राचीनं दिग्विवक्षायां प्राची वा प्राची पूर्वेति प्रोच्यते, उत्तरंतु जीवाश्चैवाजीवाश्चैव,जीवा, जीवरूपाप्राची, तत्र जीवा एकेन्द्रियादय अजीवास्तु धर्मास्तिकायादिदेशादयः, इदमुक्तं भवति, प्राच्यां दिशि जीवा अजीवाश्च सन्तीति। 5 इंदे त्यादि, इन्द्रो देवता यस्याः सैन्द्री, अग्निर्देवता यस्याः साऽऽग्नेयी, एवं यमो देवता याम्या, निर्ऋतिर्देवता नैर्ऋती, वरुणो देवता वारुणी, वायुर्देवता वायव्वा, सोमदेवता सौम्या, ईशानदेवता ऐशानी, विमलतया विमला, तमारात्रिस्तदाकारत्वात्तमाऽन्धकारेत्यर्थः, अत्रैन्द्री पूर्वाशेषाः क्रमेण, विमला तूर्द्धातमा पुनरधोदिगिति, इह च दिशः शकटोद्धिसंस्थिता विदिशस्तु मुक्तावल्याकाराः, ऊधिोदिशौ च रुचकाकारे, आह च सगडुद्धिसंठियाओ महादिसाओ हवंति चत्तारि। मुत्तावलीव चउरो दो चेव य होंति रुयगनिभे॥१॥इति / 6 जीवावी त्यादि, ऐन्द्री दिग् जीवा तस्यां जीवानामस्तित्वात्, एवं जीवदेशा जीवप्रदेशाश्चेति, तथाऽजीवानां पुद्गलादीनामस्तित्वादजीवाः, धर्मास्तिकायादिदेशानां पुनरस्तित्वादजीवदेशाः, एवमजीवप्रदेशा अपीति, तत्र ये जीवास्त एकेन्द्रियादयोऽनिन्द्रियाश्च केवलिनः, ये तु जीवदेशास्त एकेन्द्रियादीनाम् ६,एवं जीवप्रदेशा अपि, जे अरूवी अजीवा ते सत्तविह त्ति, कथं?,नोधम्मत्थिकाए, अयमर्थः, धर्मास्तिकायः समस्त एवोच्यते,सच प्राचीदिग्न भवति, तदेकदेशभूतत्वात्तस्याः, किन्तु धर्मास्तिकायस्य देशः, सातदेकदेशभागरूपेति 1, तथा तस्यैव प्रदेशाः सा भवति,असङ्खयेयप्रदेशात्मकत्वात्तस्याः 2, एवमधर्मास्तिकायस्य देशः प्रदेशाश्च 3-4, Oशकटोद्धिसंस्थिताश्चतस्रो महादिशो भवन्ति चतस्रो मुक्तावलीव द्वे च रुचकनिभे भवतः॥१॥ (ऊर्ध्वाधोदिशौ) // 826 // B