________________ श्रीभगवत्यङ्गा श्रीअभय वृत्तियुतम् भाग-२ // 814 // | ग्रामाधिकारः। भगवतो मौनम्, विहारः, नागरादि तदिव यः स कटुकोऽनिष्ट एवेति चंडे त्ति रौद्रः, दुक्खे त्ति दुःखहेतुः, दुग्गे त्ति कष्टसाध्य इत्यर्थः, तिव्वे त्ति तीव्र ९शतके उद्देशक: 33 तिक्तं निम्बादिद्रव्यं तदिव तीव्रः, किमुक्तं भवति? दुरहियासे त्ति दुरधिसह्यः, दाहवक्कंतिए त्ति दाहो व्युत्क्रान्त उत्पन्नो यस्यासौल ब्राह्मणकुण्डदाहव्युत्क्रान्तः स एव दाहव्युत्क्रान्तिकः, सेज्जासंथारगं ति शय्यायै शयनाय संस्तारकः शय्यासंस्तारकः॥ बलियतरं ति सूत्रम् 386 गाढतरम्, किं कडे कज्जइ त्ति किं निष्पन्न उत निष्पाद्यते?, अनेनातीतकालनिर्देशेन वर्तमानकालनिर्देशेन च कृतक्रिय- जमालेबहिमाणयोर्भेद उक्तः, उत्तरेऽप्येवमेव,तदेवं संस्तारककर्तृसाधुभिरपि क्रियमाणस्याकृततोक्ता, ततश्चासौ स्वकीयवचनसंस्तारक विहर्तुपुनः२ पृच्छा , कर्तृसाधुवचनयोर्विमर्शात् प्ररूपितवान्-क्रियमाणं कृतं यदभ्युपगम्यते तन्न सङ्गच्छते, यतो येन क्रियमाणं कृतमित्यभ्युपगतं तेन विद्यमानस्य करणक्रिया प्रतिपन्ना, तथा च बहवो दोषाः, तथाहि, यत्कृतं तत्क्रियमाणं न भवति, विद्यमानत्वाच्चिरन्तन व्याधिः, घटवत्, अथ कृतमपि क्रियते ततः क्रियतां नित्यं कृतत्वात् प्रथमसमय इवेति, न च क्रियासमाप्तिर्भवति सर्वदा क्रियमाण संस्तारकत्वादादिसमयवदिति, तथा यदि क्रियमाणं कृतं स्यात्तदा क्रियावैफल्यं स्याद्, अकृतविषय एव तस्याः सफलत्वात्, तथा संस्तरणा ज्ञा, पूर्वमसदेव भवदृश्यते, इत्यध्यक्षविरोधश्च, तथा घटादिकार्यनिष्पत्तौ दीर्घः क्रियाकालो दृश्यते, यतो नारम्भकाल एव घटादिकार्यं दृश्यते नापि स्थासकादिकाले, किं तर्हि, तत्क्रियाऽवसाने, यतश्चैवं ततो न क्रियाकालेषु युक्तं कार्य किन्तु / श्वलित इत्याधश्रद्धाक्रियाऽवसान एवेति, आह च भाष्यकारः, जस्सेह कज्जमाणं कयंति तेणेह विज्जमाणस्स / करणकिरिया पवना तहा य निह्नवतादि। बहुदोसपडिवत्ती॥१॥ कयमिह न कज्जमाणं तब्भावाओ चिरंतणघडो व्व / अहवा कयंपि कीरइ कीरउ निच्चं न य समत्ती // 2 // यस्येह क्रियमाणं कृतमिति मतं तेनेह विद्यमानस्य करणक्रियाऽजीकृता तथा च बहुदोषापत्तिः॥१॥ इह कृतं न क्रियमाणं तद्भावाचिरन्तनघट इव। अथवा कृतमपि चेत्क्रियते करोतु नित्यं न च समाप्तिः / / 2 / / 2 चलमान // 814 //