________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-२ // 804 // ९शतके उद्देशक: 33 ब्राह्मणकुण्डग्रामाधिकारः। सूत्रम् 385 जमालीनिष्क्रमणमहोत्सवः। अभिषेकरजोहरणाऽऽनयनाग्र थासग-मिलाण-चामर-गण्डपरिमंडिय-कडीणं ति तत्र मुखभाण्डकं मुखाभरणम्, अवचूलाश्च प्रलम्बमानपुच्छाः, स्थासकाः प्रतीताः, मिलाण त्ति पर्याणानि च येषां सन्ति ते तथा मत्वर्थीयलोपदर्शनात्, चमरी (चामर) गण्डपरिमण्डितकटय इति पूर्ववत्, ततश्च कर्मधारयोऽतस्तेषाम्, क्वचित्पुनरेवमिदं दृश्यते थासगअहिलाणचामरगंडपरिमंडिय-कडीणं ति तत्र त्वहिलाणं मुखसंयमनं ततश्च थासगअहिलाण, इत्यत्र मत्वर्थीयलोपेनोत्तरपदेन सह कर्मधारयः कार्यः, तथे सिं दंताणं ति, ईषद्दान्तानां मनाग्ग्राहितशिक्षाणांगजकलभानामिति योगः, ईसिं-उच्छंग-उन्नय-विसाल-धवल-दंताणं ति, उत्सङ्गः पृष्ठदेशः, ईषदुत्सङ्ग उन्नता विशालाश्च ये यौवनारम्भवर्तित्वात्ते तथा ते च ते धवलदन्ताश्चेति समासोऽतस्तेषाम्, कंचणकोसी पविट्ठ दंतोवसोहियाणं ति, इह काञ्चनकोशी सुवर्णमयी खोला, रथवर्णके तु सज्झयाणं सपडागाण मित्यत्र गरुडादिरूपयुक्तो ध्वजः तदितरा तु पताका, सखिखिणी-हेमजाल-पेरंत-परिक्खित्ताणं ति सकिङ्किणीकं क्षुद्रघण्टिकोपेतं यद्धेमजालंसुवर्णमयस्तदाभरणविशेषस्तेन / केशदूरीपर्यन्तेषु परिक्षिप्ता ये ते तथा तेषाम्, सनंदिघोसाणं ति, इह नन्दी द्वादशतूर्यसमुदायः, तानि चेमानि भंभा 1 मउंद 2 मद्दल 3 शिबिकादिकडंब 4 झल्लरि 5 हुडुक्क 6 कंसाला 7 / काहल 8 तलिमा 9 वंसो 10 संखो 11 पणवो 12 य बारसमो॥१॥ इति हेमवय-चित्त-8 तिणिस-कणग-निजुत्त-दारुगाणं ति हैमवतानि हिमवगिरिसम्भवानि चित्राणि विविधानि तैनिशानि तिनिशाभिधानतरुसम्बन्धीनि कनकयुक्तानि सुवर्णखचितानि दारुकाणि काष्ठानि येषु ते तथा तेषाम्, सुसंविद्ध-चक्क-मंडल-धाराणं ति सुष्ठ लोचदीक्षादि। संविद्धानि चक्राणि मण्डलाश्च वृत्ता धारा येषां ते तथा तेषाम्, सुसिलिट्ठ-चित्त-मंडल-धुराणं ति क्वचिदृश्यते तत्र सुष्ठुसंश्लिष्टाः चित्रवत्कुर्वत्यो मण्डलाश्च वृत्ता धुरो येषां ते तथा तेषाम्, कालायस-सुकय-नेमि-जंतकम्माणं ति कालायसेन लोहविशेषण सुष्टु कृतं नेमेः चक्रमण्डनधाराया यन्त्रकर्मबन्धनक्रिया येषांते तथा तेषाम्, आइन्न-वस्तुरग-सुसंपउत्ताणं ति, आकीर्णैर्जात्यैर्वर करणस्नानवस्त्र ऋद्धिसहगमन शिष्यदान // 804 //