________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-२ // 801 // | रजोहरणाऽऽनयनाग्र संनिकाशे सदृशे ये ते तथा, इह चाङ्को रत्नविशेष इति, चामराओ त्ति यद्यपि चामरशब्दो नपुंसकलिङ्गो रूढस्तथाऽपीह ९शतके स्त्रीलिङ्गन्तया निर्दिष्टस्तथैव क्वचिद्रूढत्वादिति // मत्तगय-महामुहा-किइ-समाणं ति मत्तगजस्य यन्महामुखं तस्य याऽऽकृतिरा उद्देशक: 33 ब्राह्मणकुण्डकारस्तया समानं यत्तत्तथा, एगा-भरणवसण-गहिय-णिज्जोय त्ति, एक एकादृश आभरणवसनलक्षणो गृहीतो निर्योगः परिकरोड ग्रामाधिकारः। सूत्रम् 385 यैस्ते तथा॥ तप्पढमयाए त्ति तेषां विवक्षितानां मध्ये प्रथमता तत्प्रथमता तया, अट्ठमंगलग त्ति, अष्टावष्टाविति वीप्सायां जमाली निष्क्रमणद्विर्वचनं मङ्गलकानि माङ्गल्यवस्तूनि, अन्ये त्वाहुः, अष्टसङ्ख्यान्यष्टमङ्गलकसज्ञानि वस्तूनि जाव दप्पणं ति, इह यावत्करणादिदं दृश्यं नंदियावत्त वद्धमाणग भद्दासण कलस मच्छ त्ति तत्र वर्द्धमानकं शरावं (वसंपुटं) पुरुषारूढपुरुष इत्यन्ये अभिषेकस्वस्तिकपञ्चकमित्यन्ये प्रासादविशेषमित्यन्ये, जहा उववाइए (प०६९-१)त्ति, अनेन च यदुपात्तं तद्वाचनान्तरे साक्षादेवास्ति, तच्चेदं दिव्वा य छत्तपडागा दिव्येव दिव्या प्रधाना छत्रसहिता पताका छत्रपताका तथा, सचामरा-दरस-रइय-आलोय-दरिसणिज्जा केशदूरीवाउछ्य-विजयवेजयंती य ऊसिय त्ति सह चामराभ्यां या सा सचामरा, आदर्शो रचितो यस्यां साऽऽदर्शरचिता आलोकं, शिबिकादिदृष्टिगोचरं यावदृश्यतेऽत्युच्चत्वेन यासाऽऽलोकदर्शनीया, ततः कर्मधारयः, सचामरा दंसणरइयआलोदरिसणिज्जत्ति पाठान्तरे ऋद्धिसहतु सचामरेति भिन्नपदम्, तथा दर्शने जमालेदृष्टिपथे रचिता विहिता दर्शनरचिता दर्शने वा सति रतिदा सुखप्रदा दर्शनरतिदा शिष्यदानसाचासावालोकदर्शनीया चेति कर्मधारयः, काऽसौ? इत्याह-वातोद्भूता विजयसूचिका वैजयन्ती पार्श्वतो लघुपताकिका- लोचदीक्षादि। द्वययुक्ता पताकाविशेषा वातोद्भूतविजयवैजयन्ती, उच्छ्रिता, उच्चा, कथमिव? गगणतलमणुलिहंती ति गगनतलमाकाशतलमनु // 801 // लिखन्तीवानुलिखन्ती, अत्युच्चतयेति जहा उववाइए (प०६९-१)त्ति, अनेन यत्सूचितं तदिदं तयाणंतरं चणं वेरुलियभिसंतविमलदंडं भिसंत त्ति दीप्यमानम्, पलंब-कोरंट- मल्लदामो-वसोहियं चंदमंडलनिभं समूसियं विमलमायवत्तं पवरं सीहासणं च मणिरयणपायपीढं करणस्नानवस्त्र गमन