________________ | श्रीभगवत्य श्रीअभयः वृत्तियुतम् भाग-२ | // 799 / / ९शतके उद्देशकः३३ ब्राह्मणकुण्डग्रामाधिकारः। सूत्रम् 385 जमालीनिष्क्रमण महोत्सवः। लीलट्ठिय-सालिभंजियागं ति तत्र चाभ्युद्गत उच्छ्रिते सुकृतवज्रवेदिकायाः सम्बन्धिनि तोरणवरे रचिता लीलास्थिता शालभञ्जिका यस्यां सा तथा तां जहा रायप्पसेणइज्जे (राजप्र०प्र०२६-२)विमाणवन्नओ त्ति, एवमस्या अपि वाच्य इत्यर्थः, स चायम्, ईहामिय-उसभ-तुरग-नर-मगर-विहग-वालग-किन्नर-रुरु-सरभ-चमर-कुंजर-वणलयपउमलयभत्तिचित्तं, ईहामृगादिभिभक्तिभिर्विच्छित्तिभिश्चित्रा चित्रवती या सा तथा ताम्, तत्रेहामृगा वृकाः, ऋषभा वृषभाः, व्यालकाः श्वापदा भुजङ्गा वा, किन्नरा देवविशेषाः, रुरवो मृगविशेषाः, सरभाः परासराः, वनलता चम्पकलतादिकाः, पद्मलता मृणालिकाः, शेषपदानि प्रतीतान्येव खंभुग्गय-वर-वेइया-परिगया-भिरामं स्तम्भेषूद्रता निविष्टा या वज्रवेदिका तया परिगता परिकरिता अत एवाभिरामा च रम्या या सा तथा ताम्, विज्जाहर-जमल-जुयल-जंत-जुत्तंपिव विद्याधरयोर्यद्यमलं समश्रेणीकं युगलं द्वयं तेनेव यन्त्रेण सञ्चरिष्णुपुरुषप्रतिमाद्वयरूपेण युक्ता यासा तथा ताम्, आर्षत्वाच्चैवंविधः समासः,अच्चीसहस्समालिणीयं, अर्चिः सहस्रमालाः, दीप्तिसहस्राणामावल्यः सन्ति यस्यांसा तथा, स्वार्थिकप्रत्यये चार्चिःसहस्रमालिनीका ताम्, रूवगसहस्सकलियं भिसमाणं दीप्यमानाम्, भिब्भिसमाणा मत्यर्थं दीप्यमानाम्, चक्खुलोयणलेसं चक्षुः कर्तृ लोकनेऽवलोकने सति लिशतीव दर्शनीयत्वातिशयाच्छिलष्यतीव यस्यांसा तथा ताम्, सुहफासं सस्सिरीयरूवं सशोभरूपकाम्, घंटावलि-चलिय-महुर-मणहरसरं घण्टावल्याश्चलिते चलने मधुरो मनोहरश्च स्वरो यस्यां सा तथा ताम्, सुहं कंतं दरिसणिज्जं निउणो-विय-मिसिमिसंत-मणिरयण-घंटिया-जाल-परिक्खित्तं निपुणेन शिल्पिना, ओपितं परिकर्मितं मिसिमिसंतं चिकचिकायमानं मणिरत्नानां सम्बन्धि यद्धण्टिकाजालं किङ्किणीवन्दं तेन परिक्षिप्ता परिकरिता या सा तथा ताम्, वाचनान्तरे पुनरयं वर्णकः साक्षादृश्यत एवेति // 0 केसालंकारेणं ति केशा एवालङ्कारः केशालङ्कारस्तेन, यद्यपि तस्य तदानीं केशाः कल्पिता इति केशालङ्कारो न सम्यक् अभिषेकरजोहरणाऽऽनयनाग्रकेशदूरीकरणस्नानवस्त्रशिबिकादिऋद्धिसहगमनं शिष्यदानलोचदीक्षादि। // 799 //