SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ 2080808080 श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-२ // 798 // कडिसुत्तयं दसमुद्दयार्णतयं वच्छसुत्तं मुरविं कंठमुरविं पालंबं कुंडलाइं चूडामणि ति तत्रैकावली विचित्रमणिकमयी, मुक्तावली केवलमुक्ताफलमयी, कनकावली सौवर्णमणिकमयी, रत्नावली रत्नमयी, अङ्गदं केयूरं च बाह्याभरणविशेषः, एतयोश्च यद्यपि नामकोश एकार्थतोक्ता तथाऽपीहाऽऽकारविशेषाद्भेदोऽवगन्तव्यः, कटकं कलाचिकाभरणविशेषः, त्रुटिकं बाहुरक्षिका, दशमुद्रिकानन्तकं हस्ताङ्गुलीमुद्रिकादशकम्, वक्षःसूत्रं हृदयाभरणभूतसुवर्णसङ्कलकम्, वेच्छासुत्तं ति पाठान्तरं तत्र वैकाक्षिकासूत्रमोत्तरासङ्गपरिधानीयं सङ्गलकम्, मुरवी मुरजाकारमाभरणम्, कण्ठमुरवी तदेव कण्ठासन्नतरावस्थानम्, प्रालम्बं झुम्बनकम्, वाचनान्तरे त्वयमलङ्कारवर्णकः साक्षाल्लिखित एव दृश्यत इति, रयणसंकडुक्कडं ति रत्नसङ्कटं च तदुत्कटं चोत्कृष्टं रत्नसङ्कटोत्कटम्, गंथिमवेढिमपूरिमसंघाइमेणं ति, इह ग्रन्थिमं ग्रन्थननिर्वृत्तं सूत्रग्रथितमालादि, वेष्टिमं वेष्टितनिष्पन्नं पुष्पलम्बूसकादि, पूरिमं येन वंशशलाकामयपञ्जरकादि कूर्चादि वा पूर्यते, सङ्घातिमं तु यत्परस्परतो नालसङ्घातनेन सङ्घात्यते, अलंकियविभूसियंति, अलङ्कृतश्चासौ कृतालङ्कारोऽत एव विभूषितश्च सञ्जातविभूषश्चेत्यलङ्कृतविभूषितस्तम्, वाचनान्तरे पुनरिदमधिकं दद्दर-मलय-सुगंधि-गंधिएहिं गायाई भुकुंडेंति त्ति दृश्यते, तत्र च दईरमलयाभिधानपर्वतयोः सम्बन्धिनस्तदुद्भुतचन्दनादिद्रव्यजत्वेन ये सुगन्धयोगन्धिका गन्धावासास्ते तथा, अन्ये त्वाहुः, दईरः चीवरावनद्धं कुण्डिकादि भाजनमुखं तेन गालितास्तत्र पक्वा वा ये, मलयत्ति मलयोद्भवत्वेन मलयजस्य श्रीखण्डस्य सम्बन्धिनः सुगन्धयो गन्धिका गन्धास्ते तथा तैर्गात्राणि भुकुंडेंति त्ति, उद्धृलयन्ति // अणेगखंभसयसन्निविट्ठ ति, अनेकेषु स्तम्भशतेषु सन्निविष्टा या सा तथा, अनेकानि वा स्तम्भशतानि संनिविष्टानि यस्यां सा तथा ताम्, लीलट्ठिय-सालिभंजियागं ति लीलास्थिताः शालिभञ्जिकाः पुत्रिकाविशेषा यत्र सा तथा ताम्, वाचनान्तरे पुनरिदमेवं दृश्यते, अब्भुग्गय-सुकय-वइर-वेइय-तोरणवर-रइय ९शतके उद्देशक: 33 ब्राह्मणकुण्डग्रामाधिकारः। सूत्रम् 385 जमालीनिष्क्रमणमहोत्सवः। अभिषेकरजोहरणाऽऽनयनानकेशदूरीकरणस्नानवस्त्रशिबिकादिऋद्धिसहगमनं | शिष्यदानलोचदीक्षादि। // 798 //
SR No.600444
Book TitleVyakhyapragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy