________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-२ // 788 // ९शतके उद्देशक: 33 ब्राह्मणकुण्डग्रामाधिकारः। सूत्रम् 384 जमालेर्मातृ त्ति दायादाः पुत्रादयः, एतदेव द्रव्यस्यातिपारवश्यप्रतिपादनार्थं पर्यायान्तरेणाह, अग्गिसामन्न इत्यादि, 21 विसयाणुलोमाहिं ति विषयाणांशब्दादीनामनुलोमाः तेषु प्रवृत्तिजनकत्वेनानुकूला विषयानुलोमास्ताभिः, आघवणाहि यत्ति, आख्यापनाभिः सामान्यतो भणनैः, पन्नवणाहि यत्ति प्रज्ञापनाभिश्च विशेषकथनैः, सन्नवणाहि यत्ति सज्ञापनाभिश्च सम्बोधनाभिः, विनवणाहि यत्ति विज्ञापनाभिश्च विज्ञप्तिकाभिः सप्रणयप्रार्थनैः, चकाराः समुच्चयार्थाः, आघवित्तए व त्ति, आख्यातुम्, एवमन्यान्यपि पूर्वपदेषु क्रमेणोत्तराणि योजनीयानि, विसयपडिकूलाहिं ति विषयाणां प्रतिकूलाः तत्परिभोगनिषेधकत्वेन प्रतिलोमा / पितृनिवेदन हिरण्यादियास्तास्तथा ताभिः, संजमभउव्वेयणकरीहिं ति संयमाद्भयं भीतिमुद्वेजनं च चलनं कुर्वन्तीत्येवंशीला यास्तास्तथा ताभिः। परिभोगासच्चेत्ति सङ्ग्यो हितत्वात्, अणुत्तरे त्ति, अविद्यमानप्रधानतरम्, अन्यदपि तथाविधं भविष्यतीत्याह केवल त्ति केवलमद्वितीयम्, जहावस्सए त्ति, एवं चेदं तत्र सूत्रं पडिपुन्ने ऽपवर्गप्रापकगुणैर्भूतम्, नेयाउए नायकं मोक्षगमकमित्यर्थो नैयायिकं वा न्यायानपेतत्वात्, संसुद्धे सामस्त्येन शुद्धम्, सल्लगत्तणे मायादिशल्यकर्त्तनम्, सिद्धिमग्गे हितार्थप्राप्त्युपायः, मुत्तिमग्गे दीक्षाऽनु हितविच्युतेरुपायः, निजाणमग्गे सिद्धिक्षेत्रगमनोपायः, निव्वाणमग्गे सकलकर्मविरहजसुखोपायः, अवितहे कालान्तरेऽप्यनपगततथाविधाभिमतप्रकारम्, अविसंधि प्रवाहणाव्यवच्छिन्नं सव्वदुक्खप्पहीणमग्गे सकलाशर्मक्षयोपायः, एत्थं ठिया जीवा ॐ सिझंति बुझंति मुच्चंति परिनिव्वायंति त्ति, अहीवेगंतदिट्ठीए अहेरिवैकोऽन्तो निश्चयो यस्याः सी (एकान्तासा) दृष्टिर्बुद्धिर्यस्मिनिर्ग्रन्थप्रवचने चारित्रपालनं प्रति तदेकान्तदृष्टिकम्, अहिपक्षे आमिषग्रहणैकतानतालक्षणा, एकान्ता, एकनिश्चया दृष्टिर्टग् यस्य स एकान्तदृष्टिकः, खुरो इव एगंतधाराए त्ति, एकान्ता, उत्सर्गलक्षणैकविभागाश्रया धारेव धारा क्रिया यत्र तत्तथा, लोहमये त्यादि लोहमया यवा इव चर्वयितव्याः, नैर्ग्रन्थं प्रवचनं दुष्करमिति हृदयम्, वालुये त्यादि, वालुकाकवल इव ग्रहाशाश्वतकथनादिपरस्पर संवाद मत्याटि // 788 //