________________ श्रीभगवत्यङ्गं श्रीअभय. वृत्तियुतम् भाग-२ // 787 // शुभनि:श्वासेन चोद्वेगजनका उद्वेगकारिणो जनस्य येते तथा, उच्छ्रासश्च मुखादिना वायुग्रहणं नि:श्वासस्तु तन्निर्गमः, बीभच्छ त्ति जुगुप्सोत्पादकाः, लहुस्सग त्ति लघुस्वकाः लघुस्वभावाः, कलमलाहिवास दुक्ख बहुजणसाहारणा कलमलस्य शरीरसत्काशुभद्रव्यविशेषस्याधिवासेनावस्थानेन दुःखा दुःखरूपा ये ते तथा तथा बहुजनानां साधारणा भोग्यत्वेन ये ते तथा, ततः कर्मधारयः, परिकिलेस किच्छ दुक्खसज्झा परिक्लेशेन महामानसायासेन कृच्छ्रदुःखेन च गाढशरीरायासेन ये साध्यन्ते वशीक्रियन्ते येते तथा, कडुगफलविवागा विपाकः पाकोऽपि स्यादतो विशेष्यते, फलरूपो विपाकः फलविपाकः, कटुकः फलविपाको येषां ते तथा, चुडलिव्व त्ति प्रदीप्ततृणपूलिकेव, अमुच्चमाणे त्ति, इह प्रथमाबहुवचनलोपो दृश्यः॥१९ इमे य ते जाया! अजय पञ्जय पिउपज्जयागए, इदं च तव पुत्र! आर्यः पितामहः, प्रार्यकः पितुः पितामहः, पितृप्रार्यकः पितुः प्रपितामहस्तेभ्यः सकाशादगतं यत्तत्तथा, अथवाऽऽर्यकप्रार्यकपितॄणां यः पर्ययः पर्यायः परिपाटिरित्यर्थः तेनागतं यत्तत्तथा विपुलधणकणग, इह यावत्करणादिदं दृश्यं रयण-मणि-मोत्तिय-संख-सिलप्पवाल-रत्तरयणमाइए त्ति तत्र विपुलधणे ति प्रचुरं गवादि, कणग त्ति धान्यम्, रयण त्ति कर्केतनादीनि, मणि त्ति चन्द्रकान्ताद्याः, मौक्तिकानि शङ्खाश्च प्रतीताः, सिलप्पवाल त्ति विद्रुमाणि रत्तरयण त्ति पद्मरागास्तान्यादिर्यस्य तत्तथा, संतसारसावएज्जे त्ति संत त्ति विद्यमानं स्वायत्तमित्यर्थः, सार त्ति प्रधानं सावएज त्ति स्वापतेयं द्रव्यम्, ततः कर्मधारयः, किम्भूतं तत्?, इत्याह, अलाहि त्ति, अलं पर्याप्तं भवति याव त्ति यत्परिमाणम्, आसत्तमाओ कुलवंसाओ त्ति, आसप्तमात् कुलवंश्यात् कुललक्षणवंशे भवः कुलवंश्यस्तस्मात्, सप्तमं पुरुष यावदित्यर्थः, पकामं दाउ न्ति, अत्यर्थं दीनादिभ्यो दातुम्, एवं भोक्तुं स्वयं भोगेन परिभाएउंति परिभाजयितुंदायादादीनाम्, प्रकामदानादिषुयावत् स्वापतेयमलं तावदस्तीति हृदयम्, 20 अग्गिसाहिए, इत्यादि, अग्न्यादेः साधारणमित्यर्थः, दाइयसाहिए ९शतके उद्देशक: 33 ब्राह्मणकुण्डग्रामाधिकारः। सूत्रम् 384 जमालेर्मातृपितृनिवेदन हिरण्यादिपरिभोगाग्रहाशाश्वतकथनादिपरस्परसंवाददीक्षाऽनुमत्यादि। लवंसाओ त्ति, आसप्तमात् कुलस्व यं भोगेन परिभाएउ ति पार , दाइयसाहिए।