SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-२ // 786 // ९शतके उद्देशक: 33 ब्राह्मणकुण्डग्रामाधिकारः। सूत्रम् 384 जमालेत समाहारद्वन्द्वाज्जराकुणपजर्जरगृहम्, तदेवं किम्? इत्याह सडणे त्यादि // 17 विपुलेत्यादि, विपुलकुलाश्च ता बालिकाश्चेति विग्रहः, कलाकुशलाश्च ताः सर्वकाललालिताश्चेति कला कुशलसर्वकाललालिताः ताश्च ताः सुखोचिताश्चेति विग्रहः, मार्दवगुणयुक्तो निपुणो यो विनयोपचारस्तत्र पण्डितविचक्षणा अत्यन्तविशारदा यास्तास्तथा ततः कर्मधारयः, मंजुलमिय-महुरभणिय-विहसिय-विप्पेक्खियगइ-विलास-विट्ठियविसारयाओमञ्जुलं कोमलं शब्दतः, मितं परिमितम्, मधुरमकठोरमर्थतो यद्भणितं तत्तथा तच्च विहसितं च विप्रेक्षितं च गतिश्च विलासश्च नेत्रविकारो गतिविलासो वा, विलसन्ती गतिः, विस्थितं च विशिष्टा स्थितिरिति द्वन्द्वः, एतेषु विशारदा यास्तास्तथा, अविकलकुल-सीलसालिणीओ, अविकलकुला ऋद्धिपरिपूर्णकुलाः, शीलशालिन्यश्च शीलशोभिन्य इति विग्रहः, विसुद्ध-कुल-वंस-संताण-तंतुवद्धण-पगब्भवयभाविणीओ विशुद्धकुलवंश एव सन्तानतन्तुर्विस्तारितन्तुस्तद्वर्द्धनेन पुत्रोत्पादनद्वारेण तद्वृद्धौ प्रगल्भं समर्थं यद्वयो यौवनं तस्य भावः सत्ता विद्यते यासांतास्तथा, विसुद्धकुलवंससंताणतंतुवद्धणपब्भुब्भवपभाविणीओत्ति पाठान्तरंतत्रच विशुद्धकुलवंशसन्तानतन्तुवर्द्धना ये प्रगल्भाः प्रकृष्टगर्भास्तेषांय उद्भवः सम्भूतिस्तत्र यः प्रभावःसामर्थ्यम्, सयासामस्ति तास्तथा, मणाणुकूल-हियइच्छियाओ मनोऽनुकूलाश्च ता हृदयेनेप्सिताश्चेति कर्मधारयः, अट्ठ तुज्झ गुणवल्लभाओ त्ति गुणैर्वल्लभा यास्तास्तथा, विसय-विगयवोच्छिन्न-कोउहल्ले त्ति विषयेषु शब्दादिषु विगतव्यवच्छिन्नमत्यन्तक्षीणं कौतूहलं यस्य स तथा॥१८ माणुस्सगा कामभोग त्ति, इह कामभोगग्रहणेन तदाधारभूतानि स्त्रीपुरुषशरीराण्यभिप्रेतानि, उच्चारे त्यादि, उच्चारादिभ्यः समुद्भवो येषां ते तथा, अमणुन्नदुरूव-मुत्त-पूय-पुरीसपुन्ना ऽमनोज्ञाश्च ते दुरूपमूत्रेण पूतिकपुरीषेण च पूर्णाश्चेति विग्रहः, इह च दूरूपं विरूपम्, पूतिकं च कुथितम्, मयगंधु-स्सास-असुभनिस्सास-उव्वेयणगामृतस्येव गन्धो यस्य स मृतगन्धिःसचासावुच्छ्रासश्चमृतगन्ध्युच्छासस्तेना पितृनिवेदन हिरण्यादिपरिभोगाग्रहाशाश्वतकथनादिपरस्परसवाद दीक्षा // 786 //
SR No.600444
Book TitleVyakhyapragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy