________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-२ // 784 // रयणभूए त्ति चिन्तारत्नादिविकल्पः, जीविऊसविए त्ति जीवितमुत्सूते प्रसूत इति जीवितोत्सवः स एव जीवितोत्सविकः, जीवितविषये वोत्सवो महः स इव यः स जीवितोत्सविको जीवितोच्छ्रासिक इति पाठान्तरम्, हिययाणंदिजणणे मनः समृद्धिकारकः, उंबरे त्यादि, उदुम्बरपुष्पं ह्यलभ्यं भवत्यतस्तेनोपमानम्, सवणयाए त्ति श्रवणतायै श्रोतुमित्यर्थः, किमंग पुण त्ति किं पुनः, अंगेत्यामन्त्रणे, अच्छाहि ताव जाया! जाव ताव अम्हे जीवामो त्ति, इत्यत्राऽऽस्व तावद् हेता! यावद्वयं जीवाम इत्यैतावतैव विवक्षितसिद्धौ यत्पुनस्तावच्छब्दस्योच्चारणंतद्भाषामात्रमेवेति, वड्डिय-कुलवंस-तंतु-कजम्मि-निरयवक्खेत्ति वड्डिय त्ति सप्तम्येकवचनलोपदर्शनाद्वर्द्धिते पुत्रपौत्रादिभिर्वृद्धिमुपनीते कुलरूपो वंशो न वेणुरूपः कुलवंशः सन्तानः स एव तन्तुर्दीर्घत्वसाधर्म्यात् कुलवंशतन्तुः स एव कार्यं कृत्यं कुलवंशतन्तुकार्यं तत्र, अथवा वर्द्धितशब्दः कर्मधारयेण सम्बन्धनीयस्तत्र सति, निरवकाङ्को निरपेक्षः सन् सकलप्रयोजनानाम् // 14 तहावि णं तं ति तथैव नान्यथेत्यर्थः, यदुक्त मम्हेहिं कालगएहिं पवइहिसि तदाश्रित्यासावाह, एवं खल्वि त्यादि, एवं वक्ष्यमाणेन न्यायेन, अणेग-जाइ-जरा-मरण-रोगसारीरमाणसए-काम-दुक्ख-वेयण-वसणस-ओवद्दवाभिभूएत्ति,अनेकानि यानि जातिजरामरणरोगरूपाणिशारीराणि मानसिकानि च प्रकाममत्यर्थं दुःखानि तानि तथा तेषां यद्वेदनम्, व्यसनानांच चौर्यधूतादीनां यानि शतान्युपद्रवाश्च राजचौर्यादिकृतास्तैरभिभूतो यः स तथा, अत एव, अधुवेत्ति न ध्रुवः सूर्योदयवन्न प्रतिनियतकालेऽवश्यम्भावी, अणितिए त्ति, इतिशब्दो नियतरूपोपदर्शनपरः ततश्च न विद्यत इति यत्रासावनितिकोऽविद्यमाननियतस्वरूप इत्यर्थः, ईश्वरादेरपि दारिद्र्यादिभावात्, असासए त्ति क्षणनश्वरत्वात्, अशाश्वतत्वमेवोपमानैर्दर्शयन्नाह संझे त्यादि, किमुक्तं भवति? इत्याह, अणिच्चे त्ति, अथवा प्राग् जीवितापेक्षयाऽनित्यत्वमुक्तमथ शरीरस्वरूपापेक्षया तदाह, अणिच्चे सडण-पडण-विद्धंसणधम्मे त्ति शटनं कुष्ठादिना ९शतके उद्देशक: 33 ब्राह्मणकुण्डग्रामाधिकारः। सूत्रम् 384 जमालेमातृपितृनिवेदन हिरण्यादिपरिभोगाग्रहाशाश्वतकथनादिपरस्परसंवाददीक्षाऽनुमत्यादि।