SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-२ // 783 // सूत्रम् 384 जमालेर्मातृ नविय-गायलहित्ति ससम्भ्रमं व्यायत्तियाए तुरियं कंचणभिंगार-मह भग्नानि कानिचिद्धवलवलयानि तथाविधकटकानि यस्याः सा तथा, प्रभृष्टं व्याकुलत्वादुत्तरीयं वसनविशेषो यस्याः सा ९शतके तथा, ततः पदत्रयस्य कर्मधारयः, मुच्छावस-णट्ठ-चेय-गरुइ त्ति मूर्छावशान्नष्टे चेतसि गुर्वी, अलघुशरीरा या सा तथा, उद्देशक: 33 ब्राह्मणकुण्डसुकुमाल-विकिन्न-केसहत्थ त्ति सुकुमारः स्वरूपेण विकीर्णो व्याकुलचित्ततया केशहस्तो धम्मिल्लो यस्याः सा तथा सुकुमाला ग्रामाधिकारः। वा विकीर्णाः केशा हस्तौ च यस्याः सा तथा, परसुनियत्तव्व चंपगलय त्ति परशुच्छिन्नेव चम्पकलता निव्वत्तमहे व्व इंदलट्ठि त्ति निवृत्तोत्सवेवेन्द्रयष्टिः, विमुक्कसंधिबंधण त्ति श्लथीकृतसन्धिबन्धना, ससंभमोयत्तियाए तुरियं कंचणभिंगार-मुह-विणिग्गय पितृनिवेदन | हिरण्यादिसीयलजल-विमलधार-परिसिंचमाण-निव्वविय-गायलट्ठित्ति ससम्भ्रमं व्याकुलचित्ततयाऽपवर्त्तयति क्षिपति या सा तथा तया परिभोगा ग्रहाशाश्वतससम्भ्रमापवर्त्तिकया चेट्येति गम्यते त्वरितं शीघ्रं काञ्चनभृङ्गारमुखविनिर्गता याशीतलजलविमलधारा तया परिषिच्यमाना निर्वापिता स्वस्थीकृता गात्रयष्टिर्यस्याः सा तथा, अथवा ससम्भ्रमापवर्त्तितया ससम्भ्रमक्षिप्तया काञ्चनभृङ्गारमुखविनिर्गतशीतलजलविमलधारयेत्येवं व्याख्येयम्, लुप्ततृतीयैकवचनदर्शनात्, उक्खेवग-तालियंट-वीयणग-जणिय-वाएणं ति, उत्क्षेपको वंशदलादिमयो मुष्टिग्राह्यदण्डमध्यभागः तालवृन्तं तालाभिधानवृक्षपत्रवृन्तं तत्पत्रच्छोट इत्यर्थः तदाकारं वा चर्ममयम्, वीजनकंतु वंशादिमयमेवान्तर्ग्राह्यदण्डम्, एतैर्जनितोयोवातःसतथा तेन, सफुसिएणंसोदकबिन्दुना, रोयमाण्य श्रुविमोचनात्, कंदमाणी महाध्वनिकरणात्, सोयमाणी मनसा शोचनात्, विलवमाण्या तवचनकरणात्॥ इट्ठ इत्यादि पूर्ववत्, थेग्जे त्ति स्थैर्यगुणयोगात्स्थैर्यः, वेसासिए त्ति विश्वासस्थानम्, संमए त्ति संमतस्तत्कृतकार्याणांसंमतत्वात्, बहुमए त्ति बहुमतो बहुष्वपि कार्येषु बहु वाऽनल्पतयाऽस्तोकतया मतो बहुमतः, अणुमए त्ति कार्यव्याघातस्य पश्चादपि मतोऽनुमतः, भंडकरण्डगसमाणे भाण्डमाभरणम्, करण्डकः तद्धाजनं तत्समानस्तस्यादेयत्वात्, रयणे त्ति रत्नं मनुष्यजातावुत्कृष्टत्वाद्रजनो वा रञ्जक इत्यर्थः, ससम्भ्रमापवर्तिकया चेट्येति कथनादिपरस्पर|संवाददीक्षाऽनु| मत्यादि।
SR No.600444
Book TitleVyakhyapragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy