SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-२ // 726 // ९शतके उद्देशक: 31 अश्रुत्वाधर्मलभेताधधिकारः। सूत्रम् 366 कारणत्वादिति // 2 केवलंबोहिं ति शुद्धं सम्यग्दर्शनम्, बुज्झेजत्ति बुद्ध्येतानुभवेदित्यर्थः यथा प्रत्येकबुद्धादिः, एवमुत्तरत्राप्युदाहर्त्तव्यम्, दरिसणावरणिज्जाणं ति, इह दर्शनावरणीयं दर्शमोहनीयमभिगृह्यते, बोधेः सम्यग्दर्शनपर्यायत्वात्तल्लाभस्य च तत्क्षयोपशमजन्यत्वादिति // 3 केवलं मुंडे भवित्ता अगाराओ अणगारियं ति केवलांशुद्धां सम्पूर्णां वाऽनगारितामिति योगः, धम्मंतराइयाणं ति, अन्तरायो विघ्नः सोऽस्ति येषु तान्यन्तरायिकाणि धर्मस्य चारित्रप्रतिपत्तिलक्षणस्यान्तरायिकाणि धर्मान्तरायिकाणि तेषाम्, वीर्यान्तरायचारित्रमोहनीयभेदानामित्यर्थः, 4 चारित्तावरणिज्जाणं ति, इह वेदलक्षणानि चारित्रावरणीयानि विशेषतो ग्राह्याणि, मैथुनविरतिलक्षणस्य ब्रह्मचर्यवासस्य विशेषतस्तेषामेवाऽऽवारकत्वात्, 5 केवलेणं संजमेणं संजमेज त्ति, इह संयमः प्रतिपन्नचरित्रस्य तदतिचारपरिहाराय यतनाविशेषः, जयणावरणिज्जाणं ति, इह तु यतनावरणीयानि चारित्रशेषविषयवीर्यान्तरायलक्षणानि मन्तव्यानि, 6 अज्झवसाणावरणिज्जाणं ति संवरशब्देन शुभाध्यवसायवृत्तेर्विवक्षितत्वात्तस्याश्च भावचारित्ररूपत्वेन तदावरणक्षयोपशमलभ्यत्वादध्यवसानावरणीयशब्देनेह भावचारित्रावरणीयान्युक्तानीति / 10 पूर्वोक्तानेवार्थान् पुनः समुदायेनाह, असोच्चाणं भंते! इत्यादि॥३६५॥अथाश्रुत्वैव केवल्यादिवचनं यथा कश्चित् केवलज्ञानमुत्पादयेत्तथा दर्शयितुमाह 11 तस्सणं भंते! छटुंछटेणं अनिक्खित्तेणंतवोकम्मेणं उटुंबाहाओ पगिज्झि(ते)य र सूराभिमुहस्स आयावणभूमीए आयावेमाणस्स पगति(ती)भद्दयाए पगइ(ई)उवसंतयाए पगतिपयणुकोहमाणमायालोभयाए मिउमद्दवसंपन्नयाए अल्लीवण(ल्लीण)याए भद्द० विणीय० अन्नया कयाइ सुभेणं अज्झवसाणेणं सुभेणं परिणामेणं लेस्साहिं विसुज्झमाणीहिं 2 तयावरणिज्जाणं कम्माणं खओवसमेणं ईहापोहमग्गणगवेसणं करेमाणस्स विब्भंगे नामं अन्नाणे समुप्पज्जइ, से णं तेणं विन्भंगनाणेणं समुप्पन्नेणं जह० केवल्यादि वचनमश्रुत्वाविभंगज्ञानसम्यक्त्वचारित्रावधिज्ञानप्राप्तिप्रश्नाः / 8 // 726 //
SR No.600444
Book TitleVyakhyapragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy