________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-२ // 721 // दिति पञ्चमः५। एवंलाङ्गलिकद्वीपोद्देशकोऽपि, नवरमुत्तरापराचरमान्तादिति षष्ठः६। एवं हयकर्णद्वीपोद्देशको नवरमेकोरुकस्योत्तरपौरस्त्याच्चरमान्ताल्लवणसमुद्रंचत्वारियोजनशतान्यवगाह्य चतुर्योजनशतायामविष्कम्भोहयकर्णद्वीपो भवतीति सप्तमः एवं गजकर्णद्वीपोद्देशकोऽपि, नवरंगजकर्णद्वीप आभासिकद्वीपस्य दक्षिणपौरस्त्याच्चरमान्ताल्लवणसमुद्रमवगाह्य चत्वारि योजनशतानि हयकर्णद्वीपसमोभवतीत्यष्टमः८ / एवं गोकर्णद्वीपोद्देशकोऽपि, नवरमसौ वैषाणिकद्वीपस्य दक्षिणापराच्चमान्तादिति नवमः 9 / एवंशष्कुलकर्णद्वीपोद्देशकोऽपि, नवरमसौलाङ्गलिकद्वीपस्योत्तरापराच्चरमान्तादिति दशमः१०। एवमादर्श-8 मुखद्वीप-मेण्द्रमुखद्वीपा-योमुखद्वीप-गोमुखद्वीपा हयकर्णादीनां चतुर्णा क्रमेण पूर्वोत्तरपूर्वदक्षिणदक्षिणापरापरोत्तरेभ्यचरमान्तेभ्यः पञ्च योजनशतानि लवणोदधिमवगाह्य पञ्चयोजनशतायामविष्कम्भा भवन्ति, तत्प्रतिपादकाश्चान्ये चत्वार उद्देशका भवन्तीति 14 / एतेषामेवादर्शमुखादीनांपूर्वोत्तरादिभ्यश्चरमान्तेभ्यः षड्योजनशतानि लवणसमुद्रमवगाह्य षड्योजनशतायामविष्कम्भाः क्रमेणाश्वमुखद्वीप-हस्तिमुखद्वीप-सिंहमुखद्वीप-व्याघ्रमुखद्वीपा भवन्ति, तत्प्रतिपादकाश्चान्ये चत्वार उद्देशका भवन्तीति 18 / एतेषामेवाश्वमुखादीनां तथैव सप्त योजनशतानि लवणसमुद्रमवगाह्य सप्तयोजनशतायामविष्कम्भा अश्वकर्णद्वीप-हस्तिकर्णद्वीप-कर्णप्रावरणद्वीपाः प्रावरणद्वीपा भवन्ति, तत्प्रतिपादकाश्चापरे चत्वार एवोद्देशका इति 22 // एतेषामेवाश्वकर्णादीनां तथैवाष्टयोजनशतानिलवणसमुद्रमवगाह्याष्टयोजनशतायामविष्कम्भा उल्कामुखद्वीप- मेघमुखद्वीपविद्युन्मुखद्वीप-विद्युद्दन्तद्वीपा भवन्ति, तत्प्रतिपादकाश्चान्ये चत्वार एवोद्देशका इति 26 / एतेषा मेवोल्कामुखद्वीपादीनां तथैव नव योजनशतानि लवणसमुद्रमवगाह्य नवयोजनशतायामविष्कम्भाः घनदन्तद्वीप-लष्टदन्तद्वीप-गूढदन्तद्वीप-शुद्धदन्तद्वीपा भवन्ति, तत्प्रतिपादकाश्चान्ये चत्वार एवोद्देशका इति, एवमादितोऽत्र त्रिंशत्तमः शुद्धदन्तोद्देशकः 30 इति // 364 // ९शतके उद्देशक: 3-30 अष्टाविंशत्यन्तरद्वीपाधिकारः। सूत्रम् 364 एकोरुकाद्यष्टाविंशत्यन्तरद्वीपस्थानप्रमाण प्रश्नाः // 721